SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ २६ शास्त्रवार्तासमुच्चयः । [ प्रथमः युक्तैवेति समाधानव्यपोहायाह-न चेति । आयसस्य लोहनिगडादेः । तथा हेममयस्य कनकशृङ्खलादेः । बन्धस्य फले प्रयोजने बन्धनलक्षणे । कश्चित् अनुकूलत्वप्रतिकूलत्वकृतो बलवत्त्वाबलवत्त्वकृतो वा । विशेषो वैलक्षण्यम् । न च नैव, अस्ति, पारतन्त्र्यस्य - स्वेच्छानिरोधदुःखस्य, अविशेषतः - उभयत्र विशेषाभावात् ॥ १८ ॥ तस्मादधर्मवत् त्याज्यो, धर्मोऽप्येवं मुमुक्षुभिः । धर्मा-धर्मक्षयान्मुक्तिर्मुनिभिर्वर्णिता यतः ॥ १९ ॥ पूर्वपक्षवादी स्वाभिप्रेतमुपसंहरति- तस्मादिति - यस्मात् संसारपरिभ्रमण जन्यबलवद्दुःखानुबन्धित्वं धर्मा-धर्मयोरुभयोरपि समानं तस्माद्धेतोरित्यर्थः । अधर्मवद् धर्मोऽपि त्याज्यः अधर्मो यथा त्यक्तुं योग्यस्तथा धर्मोऽपि त्यक्तुं योग्यः । एवम् उक्तविचारेण | कैरित्यपेक्षायामाह - मुमुक्षुभिरिति-मोक्षेच्छावद्भिरित्यर्थः, तदितरेषां संसारसुखविरक्तत्वाभावेन विवेकाभावात्, एतावता बलवद्दुःखानुबन्धित्वेनाधर्मवद् धर्मस्य त्याज्यत्वमुक्तम् । इष्टसाधनीभूताभावप्रतियोगित्वलक्षणेष्टप्रतिबन्धकत्वेनापि तस्य त्याज्यत्वमाह - धर्मेति-धर्माधर्मक्षयात्-धर्माधर्मयोरुभयोः क्षयाद्-अत्यन्तविनाशात् । मुक्तिः मोक्षः । मुनिभिः परिणतवचनैः । वर्णिता निरूपिता । यतः यस्मात् कारणात्, 1 अतोऽप्यधर्मवत् त्याज्यो धर्म इति ॥ १९ ॥ अत्र ग्रन्थकारः प्रतिविधानमुपदर्शयति उच्यत एवमेवैतत् किन्तु धर्मो द्विधा मतः । संज्ञानयोग एवैकस्तथाऽन्यपुण्यलक्षणः ॥ २० ॥ ――――― उच्यत इति उक्ताशङ्कायां समाधानप्रतिपत्त्यनुकूलव्यापारः क्रियत इत्यर्थः । एवमेव अविप्रतिपत्तिविषय एव । एतत् भवदुपदर्शितं धर्मस्य संसारहेतुत्वं मोक्षविरोधित्वं च । नन्वेवं धर्मस्य मोक्षप्रतिबन्धकत्वे मदुपगते भवतोऽप्यविप्रतिपत्तिविषये सति मोक्षजनकत्वं विरोधान्न सम्भवतीत्युपादेयत्वं कथं स्यादिति पृच्छति - किन्त्विति । यद्येकविध एव धर्मो भवेत् तदैकस्य तस्य मोक्षं प्रति जनकत्व - प्रतिबन्धकत्वे न स्यातामपि न चैवम् धर्मस्य द्वैविध्येनैकस्य मोक्षविरोधित्वेऽप्यन्यस्य मोक्षजनकत्वसम्भवादित्युत्तरयति-धर्म इति-धर्मः - धर्मपद 1
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy