________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः
२५
कुत्रापि प्रियसंयोगादौ । आस्था प्रवृत्त्यादिरूपा तत्प्रवर्तकवचनप्रामाण्यप्रवृत्तिरूपा वा । विवेकिनां पण्डितानाम् ॥ १५ ॥ धर्मव्यतिरिक्त प्रवृत्तिर्न युक्ता, धर्मे तु सा युक्तैवेत्यपवादमाह
मुक्त्वा धर्म जगद्वन्द्यमकलङ्क सनातनम् ।
परार्थसाधकं धीरैः, सेवितं शीलशालिभिः ॥१६॥ मुक्त्वेति-मुक्त्वा-त्यक्त्वा । धर्म पुण्यम् , तं विशिनष्टि-जगद्वन्द्यमिति-जगतां वन्द्यम्-इष्टसाधनत्वेन स्पृहणीयम् । अकलङ्कम् ऐहिकाऽऽमुष्मिकदोषसामान्यरहितम् । सनातनम् आद्यन्तरहितत्वलक्षणनित्यत्वोपेतम् , एतत् प्रवाहापेक्षयाऽवसेयम्, एतच्च धर्मे आधुनिकत्वशङ्काव्यवच्छेदार्थमुक्तम् । परार्थसाधकं परः-त्रिवर्गापेक्षया प्रकृष्टो मोक्षः, अर्थः-धनम् , उपलक्षणात् कामोऽपि, तत्साधकं-तन्निबन्धनम्, एतेन धर्मा-ऽर्थ-काम-मोक्षेषु चतुर्वर्गेषु धर्मस्याभ्यर्हितत्वमुपदिष्टं भवति । धीरैः स्थिराशयैस्तीर्थकरादिभिः । सेवितम् आचीर्णम् । धीरैः कीदृशैरित्याकाङ्क्षायामाह-शीलशालिभिरिति-काष्ठाप्राप्तब्रह्मचरित्यर्थः । एतादृशे धर्मे आस्था युक्तैव तदन्यत्र सा न युक्तेति हृदयम् ॥ १६॥
धर्मेऽप्यास्था न युक्तेति पूर्वपक्षिणः प्रत्यवस्थानं प्रतिक्षेप्तुं त्रिभिः श्लोकैरुपन्यस्यति
आह तत्रापि नो युक्ता, यदि सम्यग् निरूप्यते ।
धर्मस्यापि शुभो यस्माद्', बन्ध एव फलं मतम् ॥ १७ ॥ “ आहेति-आह-पूर्वपक्षी वक्ति। तत्रापि धर्मेऽपि । नो युक्ता आस्थेति प्रकृतम् । किं विचारमन्तरेणैव वाङ्मात्रेणैव न युक्तेत्यत आह-यदीति । सम्यग् सूक्ष्मनीत्या । निरूप्यते पर्यालोच्यते । किमत्र पर्यालोचनमित्यपेक्षायामाह-धर्मस्यापीति-उक्तलक्षणस्य धर्मस्यापीत्यर्थः । शुभः सातादिहेतुः । यस्मात् यस्मात् कारणात् । बन्ध एव अभिनवकर्मपुद्गलपरिग्रह एव । फलं मतं प्रयोजनमिष्टं लोके ॥ १७ ॥
न चायसस्य बन्धस्य, तथा हेममयस्य च ।
फले कश्चिद् विशेषोऽस्ति, पारतत्र्याविशेषतः ॥१८॥ ननु अभिनवकर्मपुद्गलपरिग्रहः शुभबन्धरूपत्वादिष्ट एव, तत्साधनत्वादास्था