SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [प्रथमः जत्तो चिय पञ्चक्खं सोम्म! सुहं णत्थि दुक्खमेवेदं । तप्पडियारविभिण्ण तो पुण्णफलं ति दुक्खं ति ॥ विसयसुहं दुक्खं चिय दुक्खपडियारओ तिगिच्छि ब्व । तं सुहमुवयाराओ ण य उवयारो विणा तञ्च ॥" [पुण्यफलं दुःखमेव कर्मोदयतः फलमिव पापस्य । ननु पापफलेऽपि समं प्रत्यक्षविरोधिता चैवम् ॥ यत एव प्रत्यक्षं सौम्य ! सुखं नास्ति दुःखमेवेदम् । तत्प्रतीकारविभिन्न ततः पुण्यफलमिति दुःखमिति ॥ विषयसुखं दुःखमेव दुःखप्रतीकारतश्चिकित्सेव । तत् सुखमुपचारानोपचारो विना तथ्यम् ॥ -एकादशे गणधरवादे गाथा-३३.३४. ३५.] इति, अत एव व्यास-पतञ्जलिप्रभृतिभिरपि संसारे सुखाभाव एवोक्तः, गौतमेनापि चैकविंशतिदुःखमध्य एव सुखं परिगणितमिति, दुःखानानेकविंशति. परिगणनं चेत्थम्-शरीरं, षडिन्द्रियाणि, षड् विषयाः, षड् बुद्धयः, सुखं दुःखं चेत्येकविंशतिः । न च वस्तुभूतसुखस्य दुःखतयाऽवधारणं विपर्यास एवेति वाच्यम् , यतो वस्तुभूतस्य पारमार्थिकसुखस्य न दुःखमध्ये परिक्षेपः, किन्तु तादृशसुखविकाररूपयोवैषयिकसुख-दुःखयोर्मध्यात् सुखस्य दुःखेऽन्तर्भाव इति वैषयिकसुखस्य दुःखानुबन्धित्वाद् दुःखत्वावधारणं न विपर्यास इत्येवं यशोविजयोपाध्याया व्याख्यातवन्त इति ॥ १४ ॥ फलितमुपसंहरति प्रकृत्यासुन्दरं ह्येवं, संसारे सर्वमेव यत् । अतोत्र वद किं युक्ता, कचिदास्था विवेकिनाम् ॥१५॥ प्रकृत्येति-प्रकृत्या-स्वभावेन । असुन्दरं बलवदनिष्टाननुबन्धीष्टसाधनत्वरूपसफलत्वाभावादशोभनम् । हि निश्चितम् । एवम् उक्तप्रकारेण । संसारे जगति । सर्वमेव सकलमेव प्रियसंयोगादिकम् । यत् यस्मात् कारणात् । अतः भस्मात् कारणात् । अत्र संसारे। वद इति संबोधनं व्यामोहादिदोषनिरासेनावधानार्थम् । किमित्याक्षेपे, नेत्यर्थः, युक्ता साध्वी, न साध्वीत्यर्थः । कचित्
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy