________________
स्तबक: ]
स्याद्वादवाटिकाटीका सङ्कलितः
अनित्या इति । सम्पदो मणिकाञ्चन-व्रीह्यादयः । अनित्याः विद्युद्दिलसितवदकस्माद् विनश्वराः । यतः तीव्रक्लेशवर्गसमुद्भवाः तीव्रः - दुःसहो यः क्लेशवर्गों निशितशरप्रवाहपरायणकिराताक्रान्तविकटकान्तारगमन प्रतिकूल पवनसमुच्छलद्वहलजलपरिक्षुब्धजलधियानपात्रा रोहण- प्रकृतिभीषणराजसेवादिलक्षणधनार्जनोपायजन्यः, तस्मात् समुद्भवः - उत्पत्तिर्यासामेतादृशः, इमा अपि प्रकृतिदोष सम्बन्धदोषाकलितत्वाद् दुःखजनन्यः । तथा अनित्यं जीवितं चेह इह - संसारे, जीवितं च- प्राणधारणलक्षणजीवनमपि, अनित्यं - नश्वरम् । सर्वभावनिबन्धनं सकलव्यवहारकारणम्, इदमपि प्रकृतिदोष-सम्बन्धदोषाकलितत्वाद् दुःखनिमित्तम् । इत्थमत्रैहिकं दुःखं समस्तीति दर्शितम् ॥ १३ ॥
अथात्राभुष्मिकं दुःखमुपदर्शयति
पुनर्जन्म पुनर्मृत्युर्हीनादिस्थानसंश्रयः ।
पुनः पुनश्च यदतः सुखमत्र न विद्यते ॥ १४ ॥
"
२३
पुनर्जन्मेति एतज्जन्मापेक्षयाऽग्रिमं जन्म पुनर्जन्मेत्यभिधीयते, बीजरूपस्य जन्मान्तरनिमित्तस्यादृष्टस्य सत्वेऽङ्कुररूपस्य जन्मान्तरस्य प्रादुर्भावात् । तथा पुनर्मृत्युः पुनर्जन्मनि सति यो मृत्युः स पुनर्मृत्युरिति कथ्यते, "जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।" [ ] इति वचनाज्जन्मनो मृत्युनान्तरीयकत्वस्यावधारणात् । तथा हीनादिस्थानसंश्रयः पुनः पुनश्च - हीनदीत्यादिपदाद् हीनतर - हीनतम परिग्रहः, प्रागुपात्तनीचैर्गोत्रादिकर्मविपाकात् पुनः पुनश्च - वारं वारं च, हीनादिस्थानानाम् - अधमा -ऽधमतरा-ऽधमतमादिजातीनां संश्रयः- आश्रयणम् । यद् यस्मात् कारणाद् भवति । अतः अस्मात् कारणात्। अत्र जगति । सुखम् अनिष्टाविमिश्रितं यत् सुखं प्रवृत्त्युपयोगि तत् । न विद्यते नास्त्येव । व्यवहारतः प्रतिभासमानमपि सांसारिकं सुखं बहुतरदुःखानुविद्धत्वेन हेयमेवेति न प्रवृत्त्युपयोगि, निश्चयतस्तु आत्मस्वरूपमेव सुखं-सुखपदवाच्यम्, कर्मोदयजनितं तु वैषयिकं सुखं - सुखपदवाच्यमेव न भवति, तदुक्तं विशेषावश्यके—
www
“ पुण्णफलं दुक्खं चिय कम्मोदयओ फलं व पावस्स । नणु पावले व समं पच्चक्खविरोहिया चेवं ॥