SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [ प्रथमः बन्धकस्य तत्राप्यभावात् प्रवृत्यापत्तेदुर्वारत्वादिति चेत् ? सत्यम् - मोहप्राबल्य - लक्षणदोषमहिम्नैव पारदार्यादिफलेच्छा विघातस्य तत्र बलवद्वेषस्य चानुदयाद् रागान्धप्रवृत्त्युपपत्तेः; तदुक्तम् २२ " जाणिज्जइ चिंतिज्जइ जम्म जरा-मरणसंभवं दुक्खं । न य विसएस विरजइ अहो सुबद्धो कवडगंठी” ॥ १ ॥ [ज्ञायते चिन्त्यते जन्म-जरा-मरणसम्भवं दुःखम् । न च विषयेषु विरज्यते हो ! सुबद्धः कपटग्रन्थिः ॥ इति संस्कृतम् ] | अथवा शास्त्रबोधितदुःखबलवत्त्वस्यैव कर्मोदय दोषेणापनोदः । ननु येनोदितेन कर्मणा शास्त्रबोधितं दुःखबलवत्त्वमपोद्यते तस्य कर्मणः शास्त्रेणानपनयने विफल तच्छास्त्रं प्रसज्यत इति चेत् ? न अनिकाचितस्य तस्य कर्मणः शास्त्राभ्यासनिवर्तनीयत्वादिति ॥ ११ ॥ धर्मभिन्नस्य सर्वस्य दुःखकारणत्वं यदुपदर्शितं तद् विविच्य दर्शयतिअनित्यः प्रियसंयोगः, इर्ष्या - शोकवत्सलः । अनित्यं यौवनं चापि, कुत्सिताचरणास्पदम् ॥ १२ ॥ अनित्य इति - अनित्यः - स्वप्नसमागतका मिनीविलासवत् पर्यन्तविनश्वरप्रकृतिरशाश्वतः । प्रियसंयोगः वल्लभसमागमः । इह संसारे । कीदृशः प्रियसंयोगो यस्यानित्यत्वमित्यपेक्षायामाह -- ईर्ष्या - शोकवत्सल इति— प्रतिपक्षोन्नतिदर्शनप्रभवो मत्सरविशेष ईर्ष्या, प्रियसंयोगस्य विनाशादिचिन्तनप्रभवो दुःखविशेषः शोकः, तौ वत्सलौ - अवश्योपनतकारणौ यत्र तादृशः; एतेन प्रकृतिदोष सम्बन्ध दोषावेदनेन पूर्वं पश्चाच्च दुःखानुबन्धित्वं प्रियसंयोगस्य प्रकटीकृतम् । यौवनं चापि कामा प्रतिघमित्रं वयोविशेषोऽपि । कुत्सिताचरणास्पदं कुत्सिताचरणस्य - गर्हितकामक्रीडाद्याचारस्य, आस्पदं - गेहमसद्व्यवहारनिमित्तमिति यावत्, अस्यापि च पूर्वं पश्चाच्च दुःखनिमित्तत्वम् । अनित्यं च स्वप्नसमागतकामिनीक्रीडावत् पर्यन्तविनश्वरप्रकृतित्वादनित्यमिदमपीति ॥ १२ ॥ सम्पज्जीवितयोरनित्यत्वादिना दुःखनिमित्तत्वं भावयति — अनित्याः सम्पदस्तीव्र-क्लेशवर्गसमुद्भवाः । अनित्यं जीवितं चेह, सर्वभावनिबन्धनम् ॥ १३ ॥
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy