SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ २१ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः प्रतिबन्धकं भवेद् , भवेत् तदा सामान्यतः प्रवृत्तौ बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानं कारणम्, न चैवम् , न्यूनदुःखजनकत्वज्ञानस्याप्यलसप्रवृत्तिप्रतिबन्ध कत्वदर्शनेन विशिष्यैव प्रतिबध्यप्रतिबन्धकभावस्य कल्पनीयतया रागान्धप्रवृत्तौ बलवहःखानुबन्धित्वज्ञानस्य प्रतिबन्धकत्वमेव न कल्प्यत इति तत्प्रवृत्ताविष्टसाधनताज्ञानमेव कारणमिति ततो निषिद्धकर्मणि तत्प्रवृत्युपपत्तिरिति वाच्यम् , दुःखमात्रभीरोरलसस्य बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानस्य सद्भावेऽपि प्रवृत्तिफलेच्छैव नास्तीति प्रवृत्तिफलेच्छाऽपि प्रवृत्तौ कारणमिति तदभावादेव न प्रवृत्तिरितीतरसकलसमवधाने तत्सत्त्वे तदभावरूपान्वयव्यभिचाराभावान्न बलवदनिष्टाननुबन्धीष्टसाधनत्वज्ञानस्य सामान्यतः प्रवृत्तिं प्रति कारणत्वं परित्याज्यम् ,रागान्धानां तु सम्यग्दृशां द्वेषानुदयेऽपि निषेधविधायकशास्त्रतो निषिद्धकर्मणि बलवदनिष्टनरकादिदुःखानुबन्धित्वज्ञानसम्भवेन बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानाभावात् प्रवृत्त्यनुपपत्तेर्वज्रलेपायमानत्वात् । न च सामान्यतः प्रवृत्तिं प्रतीष्टसाधनताज्ञानमेव कारणम् , न तु बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानम् , फले उत्कटेच्छाविरहविशिष्टदुःखजनकत्वज्ञानं च प्रवृत्तिं प्रति प्रतिबन्धकं कल्प्यते, तावतैव च न मधुविषसम्पृक्तान्नभोजने प्रवृत्तिः, अलसस्य तु फलेच्छैव नास्तीति तदभावादेव न प्रवृत्तिः, यदि सा समस्ति तदा दुःखद्वेषादपकृष्टा समा वा, न तु दुःखद्वेषादुत्कृष्टत्वेनोत्कटा इति उत्कटेच्छाविरहविशिष्टदुःखजनकत्वज्ञानरूपप्रतिबन्धकसद्भावान्नालसस्य प्रवृत्तिः, रागान्धानां च पारदार्यादिफले उत्कटेच्छोदयादुत्कटेच्छाविरहविशिष्टदुःखजनकत्वज्ञानरूपप्रतिबन्धकाभावात् पारदार्यादिफले प्रवृत्तिरुपपद्यत इति वाच्यम् , निरुक्तप्रतिबन्ध्यप्रतिबन्धकभावस्याधिकस्याभ्युपगमेऽपि निषेधविधिसामर्थ्याद् रागान्धानामप्यविरतसम्यग्दृशां नरकादिदुःखेऽत्युत्कटताज्ञानस्य प्रवृत्तिफले वैषयिकसुखे उत्कटेच्छाविघातकत्वेनोत्कटेच्छाविरहविशिष्टदुःखजनकत्वज्ञानस्य प्रवृत्तिप्रतिबन्धकस्य सद्भावात् प्रवृत्त्यनुपपत्तेः; एतेन 'विशेष्यतासम्बन्धेन प्रवृत्तिं प्रति विशेष्यतासम्बन्धेन बलवद्वेषस्य कार्यकालवृत्तितया प्रतिबन्धकत्वम् , तत एवालसस्य स्वल्पदुःखजनकेऽपि बलवद्वेषस्य प्रवृत्तिप्रतिबन्धकस्य सद्भावान्न प्रवृत्तिः, रागान्धस्य तु बहुदुःखजनकेऽपि परदारमैथुनादौ बलवद्वेषस्याभावात् प्रवृत्तिः' इत्यपास्तम् , निषिद्धे बलवद्वेषस्याप्यवश्यम्भावात् , यदि रागान्धस्य कारणबलादपि तत्र द्वेषो नोपेयते तर्हि विषभक्षणादावपि द्वेषो भवत्येवेत्यत्र बलवत्प्रमाणाभावेन तद्रूपप्रति
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy