SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [प्रथमः गृहाण, अत एव 'सम्यग्दर्शनादिजन्यविवेकाभावादनाभोगतोऽपि “सदन्ध." न्यायेन मार्गगमनमेवास्य' इति वदन्ति । विभावनीयं चेदं "सुप्तमण्डितप्रबोधदर्शन०" न्यायेनेति दिगिति ॥ १० ॥ ननु धर्मे एव सुखार्थिनां प्रेक्षावतां प्रवृत्तिरित्यत्र न किञ्चिनियामकं पश्यामः, सुखोपायेषु सक्-चन्दना ऽङ्गना-भाषादिष्वपि प्रवृत्तेायप्राप्तत्वादित्यत आह उपादेयश्च संसारे, धर्म एव बुधैः सदा । विशुद्धो मुक्तये सर्व, यतोऽन्यद् दुःखकारणम् ॥ ११॥ उपादेयश्चेति–उपादेयश्च-ग्रहीतुं योग्यश्च । संसारे भवनिधौ । धर्म एव प्रधानपुरुषार्थमोक्षसाधनत्वात् प्रधानपुरुषार्थः । बुधैः ज्ञाततत्त्वैः । सदा दुःखदभोगादिकालव्यवच्छेदेन । किंविशिष्टो धर्मो ग्राह्य इत्यपेक्षायामाह-विशुद्ध इति-निरतिचार इत्यर्थः । मुक्तये विशुद्धो धर्मोऽखिलफलनिरीहस्यैव भवतीति सर्वत्राशंसाऽभावेन मुक्त्यर्थम् , धर्मस्य विशुद्धत्वं नान्तरेण मुक्त्यर्थत्वमिति विशुद्धग्रहणेन मुक्त्यर्थमाल्लब्धमेव तथापि पार्थक्येन तदभिधानं प्राधान्यख्यापनार्थम् । कथं निरतिचारधर्मस्यैव बुधैर्ग्राह्यत्वमत आह–सर्व यतोऽन्यदितियतः-यस्मात् कारणात् । अन्यत्-धर्मभिन्नम् । सर्व-स्रक्-चन्दना-ऽङ्गनालिङ्गनादिकम् । दुःखकारणं नरकाद्यनुबन्धि, तथा चेष्टसाधनताज्ञानमात्रस्य प्रवृत्तिहेतुत्वे मधुविषसम्पृक्तानभोजनस्यापि क्षुन्निवृत्तिरूपेष्टसाधनत्वमिति तत्रेष्टसाधनत्वस्य ज्ञानात् प्रवृत्तिः प्रसज्येत, तद्वारणार्थ बलवदनिष्टाननुबन्धित्वे सतीष्टसाधनताज्ञानं प्रवृत्तौ कारणं वाच्यम्, तच्च नरकादिरूपबलवदनिष्टानुबन्धिनि सक्-चन्दना-ऽङ्गनाऽऽलिङ्गनादौ नास्तीति कारणाभावान्न तत्र न्याय्या प्रवृत्तिरिति धर्म एवेत्यवधारणस्यौचित्यम् । ननु बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानस्य प्रवृत्तिं प्रति कारणत्वे अविरतसम्यग्दृशां निषिद्धकर्मणि प्रवृत्तिन भवेत् , तेषां निषिद्धकर्मणि बलवदनिष्टसाधनत्वज्ञानस्य भावेन बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानासम्भवात् ;न चाविरतसम्यग्दर्शिनो रागान्धत्वानिषिद्धकर्मजन्यदुःखे बलवत्त्वं न प्रतिसन्दधत इति बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानं निषिद्धकर्मणि तेषां समस्त्येवेति प्रवृत्त्युपपत्तिरिति वाच्यम् , परदारमैथुनादिकर्मणो निषेधविधायकविधिनैव तजन्यदुःखे बलवत्त्वस्याविरतसम्यग्दृशामपि बोधस्य सम्भवात् ; न च सामान्यतः प्रवृत्ती बलवदनिष्टसाधनत्वज्ञानं यदि
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy