________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः अतिदिशति
एवं गुणगणोपेतो, विशुद्धात्मा स्थिराशयः ।
तत्त्वविद्भिः समाख्यातः, सम्यग्धर्मस्य साधकः ॥१०॥ एवमिति–एवम्-उक्तेन प्रकारेण । गुणगणोपेतः सन् , विशुद्धात्मा अत्यन्तापायहेतुकुग्रहमलरहितः । स्थिराशयः स्थिरचित्तो नास्तिक्यानुपहत. चित्ताध्यवसायः । तत्त्वविद्भिः सर्वज्ञैः । समाख्यातः कथितः । सम्यम् आगमोक्तविधिना । धर्मस्य साधकः नियमभावित्वेन धर्महेतुसाधनेऽपि धर्मस्य साधकः, कारणे कार्योपचारात् ।
अत्र विशेष कञ्चनोपदर्शितवन्तो न्यायविशारदा यशोविजयोपाध्याया इत्यम्एवं विधस्यादित एव मार्गानुसारिप्रवृत्त्युपलम्भात् , तदर्थमेवादिकर्मविध्युपदेशाच्च, तदुक्तं ललितविस्तरायां ग्रन्थकृतैव-"तसिद्ध्यर्थं यतितव्यमादिकर्मणि, परिहर्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणमित्राणि, न लङ्घनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः, भवितव्यमेतत्तन्त्रेण, प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा भगवताम् , निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्रम् , भावनीयं महायत्नेन, प्रवर्तितव्यं विधानतः, अवलम्बनीयं धैर्यम् , पर्यालोचनीयाऽऽयतिः, अवलोकनीयो मृत्युः, भवितव्यं परलोकप्रधानेन, सेवितव्यो गुरुजनः, कर्तव्यं योगपददर्शनम् , स्थापनीयं तद्रूपादि च चेतसि, निरूपयितव्या धारणा, परिहर्तव्यो विक्षेपमार्गः, यतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमा, लेखनीयं भुवनेश्वरवचनम् , कर्तव्यो मङ्गलजापः, प्रतिपत्तव्यं चतुःशरणम् , गर्हितव्यानि दुष्कृतानि, अनुमोदनीयं कुशलम् , पूजनीया मन्त्रदेवता, श्रोतव्यानि सच्चेष्टितानि, भावनीयमौदार्यम् , वर्तितव्यमुत्तमज्ञानेन" इति, नानिवृत्ताधिकारायां प्रकृतावेवंभूत इति कापिलाः, नानवाप्तभवविपाके इति च सौगताः, अपुनर्बन्धकस्त्वेवंभूत इत्याहताः । न चापुनर्बन्धकस्याधिकारिविशेषणस्यानिश्चये प्रवृत्त्यनुपपत्तिरिति शङ्कनीयम् , अशाठ्यपूर्वकैतत्प्रयत्नेनैव तन्निश्चयात् , तदुक्तम्- "भग्नोऽप्येतद्यनलिङ्गोऽपुनर्बन्धकः” [ ] इति, तं प्रत्युपदेशसाफल्यमिति । आदित एत. प्रयत्न एवास्य कथम् , इति चेत् ? अविरुद्धकुलाचारादिपरिपालनाद्यर्थितयेति