________________
शास्त्रवातसमुच्चयः ।
[ प्रथमः
धर्मचारिणाम् उद्यतविहारशालिनां पवित्रसाधूनाम्, तेषां दर्शनं परमबोधिलाभनिदानं किष्टकर्मविगमहेतुत्वात् । तथा स्थाने शास्त्रोक्तस्थले । विनयः करशिरःसंयोगविशेषादिलक्षणतद्वन्दनाद्यभिव्यङ्गयो मानसः परिणामविशेषः । इत्येतत् एवंभूतम् । साधुसेवाफलं महत् धर्माङ्गसाधनम्, उपदेशादिना चारित्रप्रतिबन्धककर्मक्षयोपशमादिना चारित्रधर्मावाप्तेरवश्यम्भावात् ॥ ७ ॥
मैत्रीफलमुपदर्शयति
मैत्रीं भावयतो नित्यं, शुभो भावः प्रजायते । ततो भावोदकाञ्जन्तोद्वेषाग्निरुपशाम्यति ॥ ८ ॥
१८
wwwwwww
मैत्रीमिति - मैत्री - प्रत्युपकारनिरपेक्षां प्रीतिम् । भावयतः अभ्यस्यतः । नित्यं सर्वकालम् । शुभः प्रशस्तः । भावः साम्यलक्षणः, यं पातञ्जलमतानुयायिनः “प्रशान्तवाहितः" इत्याचक्षते । जायते उत्पद्यते । ततः तस्मात् । भावोदकात् परमार्थ भावरूपोदकात् । जन्तोः प्राणिनः । द्वेषाग्निः मत्सरानलः । उपशाम्यति समूलमपयाति तथा च शुद्धोपयोगलक्षणधर्मे साम्य-द्वेषोपशमद्वारा मैत्र्युपयुज्यत इति फलितं निर्धारितं वाचकप्रवरैः ॥ ८ ॥
www.w
आत्मीयग्रहमोक्षफलं दर्शयति
―――――
अशेषदोषजननी, निःशेषगुणघातिनी । आत्मीयग्रहमोक्षेण, तृष्णाऽपि विनिवर्तते ।। ९ ।।
जन
अशेषदोषेति-अशेषाणां दोषाणां हिंसा ऽनृताऽज्ञानादीनाम्, नीव मातेव तृष्णायां सत्यां सकलदोषाणामवश्यम्भावात्, “लोभमूलानि पापानि " [ ] इत्युक्तः । तथा निःशेषगुणघातिनी निःशेषाणां गुणानामुपशमादीनां घातिनी, तृष्णया स्वकालवर्तिनां गुणानां विनाशात्, . भाविनां च तेषामुत्पत्तिप्रतिबन्धात् । आत्मीयग्रहमोक्षेण बाह्यसङ्गत्यागलक्षणेन । तृष्णाऽपि लौल्यपरिणतिरपि, लोभवासनाऽपीति यावत् । विनिवर्तते विषयसङ्गरूपोद्बोधकाभावादनुत्थानोपहता सती प्रतिपक्षपरिणामाभ्यासेन क्षीयत इति यावत् ॥ ९ ॥