________________
स्तबक: ]
स्याद्वादवाटिकाटीका सङ्कलितः
मिथ्यात्वस्य, क्षमादिना च क्रोधादीनां निवृत्तेस्तन्मूलकदुःखविरहादनिवारितः
सुखावकाशः ।
“अहिंसया क्षमया क्रोधस्य, ब्रह्मचर्येण वस्तुविचारेण कामस्य, अस्तेयापरिग्रहरूपेण सन्तोषेण लोभस्य, सत्येन यथार्थज्ञानरूपेण विवेकेन मोहस्य, तन्मूलानां च सर्वेषां निवृत्ति:" [ ] इति तु पातञ्जलानुसारिणः ।
-
तत्रेदं विभावनीयम् – अहिंसादिना मूलगुणघातिक्रोधादिनिवृत्तावपि संज्वलनादिरूपक्रोधादिनिवृत्तिः क्षमाद्युत्तरगुणसाम्राज्यादेवेति विशेषः समुपदर्शितः श्रीमद्भिर्यशोविजयोपाध्यायैरिति ॥ ५ ॥
सम्यक्करणोपायमहिंसादिसम्पत्तिनिमित्तमुपदर्शयति
साधुसेवा सदा भक्त्या, मैत्री सत्त्वेषु भावतः । आत्मीयग्रहमोक्षश्च, धर्महेतुप्रसाधनम् || ६ ||
१७
साधुसेवेति साधुसेवा ज्ञानादिगुणवृद्धोपासना । सदा सर्वदा । भक्त्या बहुमानेन । तथा मैत्री प्रत्युपकार निरपेक्षा प्रीतिः । सत्त्वेषु प्राणिषु । भावतः परमार्थतः, निश्चयत इति यावत् । तथा आत्मीयग्रहमोक्षः आत्मीयमिति ग्रहणमात्मीयग्रहो ममत्वपरिणामः, तस्य मोक्षः - परित्यागो, यस्माद् बाह्यसङ्गत्याग इत्यर्थः । एतत्रितयं धर्महेतुप्रसाधनं धर्महेत्नामहिंसादीनां प्रकृष्टं फलायोगव्यवच्छिन्नं साधनम्, साधुसेवा- मैत्रयात्मग्रहमोक्षाणां बहूनां विशेष्यत्वात् तद्विशेषणबोधकस्य धर्महेतुप्रसाधनशब्दस्य बहुवचनान्तत्वस्य युक्तत्वेऽपि यदेकवचनान्तत्वं तेनोक्तसाधनानां स्वेतरसकलकारणनियतत्वं व्यञ्जितं भवतीति ॥६॥
तत्र साधुसेवाफलमुपदर्शयति
उपदेशः शुभो नित्यं, दर्शनं धर्मचारिणाम् ।
स्थाने विनय इत्येतत् साधुसेवाफलं महत् ॥ ७ ॥
"
•
"
उपदेश इति - उपदेश:- मौनीन्द्रवचनमेतत् यदुत - अहिंसादिकं विधेयमित्येवंरूपः, भवजलधियानपात्र प्रायः खल्वयम् अस्य श्रवणमात्रादेव समीहितं भवति, तदर्थज्ञानाद् भवतीति किमु वक्तव्यम् ? | शुभः निःश्रेयसाऽभ्युदयलक्षणकुशलसाधकः । नित्यं निरन्तरम् । तथा दर्शनं मुखारविन्दावलोकनम् ।
२ शास्त्र०स०