SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ १६ शासवाासमुच्चयः । [प्रथमः को-मान-माया-लोभाः । इति एते एवंप्रकारा वा । पापस्य हेतवः मामकर्मबन्धजनका इत्यर्थः" इति हरिभद्रसूरिव्याख्यानम् । न्यायविशारदस्यात्र चेत्थं व्याख्यानम्-प्रमादयोगेन प्राणव्यपरोपणं हिंसा, धर्मविरुद्धं वचनमनृतम्, आदिपदाद् धर्मविरोधेन स्वामि-जीवाद्यननुज्ञातपरकीयद्रव्यग्रहणमदत्तादानम्, स्त्रीपुंसव्यतिकरलक्षणमब्रह्म, सर्वभावेषु मूर्छालक्षणः परिग्रहश्च परिगृह्यते, अत्र च "आदिशब्दादवरोधेऽप्यनृतग्रहणं प्राधान्यख्यापनार्थम्" इति [हरिभद्रपादाः] वदन्ति, तत्ख्यापनं च प्रभृतिप्रधानार्थकयोरादिशब्दयोः कृतैकशेषयोबलादेवेति प्रतिभाति "माये परोक्षम्" [तत्त्वार्थः १. ११] इत्यत्रेवोत्तरत्रयापेक्षमत्राद्यत्वमित्याक्षेपादेवानृतस्य प्राधान्यं लभ्यत इत्यपरे । एते पञ्चाऽविरतिरूपाः । तत्त्वस्य-यथाऽवस्थितवस्तुनोऽश्रद्धानं यस्मादिति बहुब्रीद्याश्रयणात् तत्त्वाश्रद्धानं मिथ्यात्वम् । एवकारः प्रसिद्ध्यर्थः । चः पुनरर्थः । क्रोधादयः क्रोध-मान-माया लोभाश्च, चत्वारः । इति एतावन्तः, योगानां साधारण्येनाग्रहणात् , विषय-प्रमादाऽऽर्तरौद्रादीनां चात्रैवान्तर्भावात् । इति एवंप्रकारा वा । पापस्य अशुभकर्मणः । हेतवः कारणानि ॥ ४ ॥ विपरीतास्त्विति-विपरीताः हिंसाऽनृतादीनां विपरीता विरुद्धधर्माध्यस्ता अहिंसा ऽस्तेय ब्रह्मा-ऽपरिग्रह सम्यग्दर्शन क्षान्ति-मार्दवा ऽऽर्जवा-ऽनीहा. लक्षणाः । तुर्विशिनष्टि एत एव गुणाः । बुधैः अर्हद्वचनानुसारिगीतार्थैः । धर्मस्य शुभाशयलक्षणस्य, हेतव उदिताः उक्ताः । अत एतेषु धर्महेतुषु । सततं निरन्तरम् , यत्नः प्रयत्नः । सम्यग विधिना, कार्यः । केनेत्याहसुखैषिणा कल्याणकामेन, सुखोपाये प्रवृत्तित एव सुखोत्पत्तिर्भवति नान्यथेत्यतः सुखसाधनधर्महे तुषु प्रयत्नस्य निरन्तरकरणीयत्वमुपदिष्टम् । स्वभावतः सुखेच्छा-दुःखद्वेषवतामपि प्राणिनां सुखोपाये धर्मेऽनिच्छा दुःखोपाये चाधर्मे एवेच्छा खलु महामोहराजाज्ञाचेष्टितम् , यदुक्तम् "धर्मस्य फलमिच्छन्ति, धर्म नेच्छन्ति मानवाः। फलं नेच्छन्ति पापस्य, पापं कुर्वन्ति सादराः ॥ १॥"[ ] इति । उक्तेषु धर्महेतुषु प्रवृत्त्या चाहिंसादिनाऽविरतेः, सम्यग्दर्शनेन च
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy