________________
सबकः] स्याद्वादवाटिकाटीकासङ्कलितः दिकं प्रति तादाम्यसम्बन्धेन शरीरं कारणम् , तथा समवायसम्बन्धेन सुखं प्रति समवायसम्बन्धेन धर्मः कारणमिति शरीरादिरूपकारणाभावान्मुक्तौ सुखस्य नोत्पत्तिरिति सैव मुक्तिसुखे बाधिकेति साम्प्रतम् , शरीरादेर्जन्यात्मविशेषगुणत्वावच्छिन्नं प्रत्येव कारणत्वात् , कार्यतावच्छेदककोटौ प्रविष्टं जन्यत्वं च नोत्पत्तिमत्त्वं किन्तु ध्वंसप्रतियोगित्वमेव, तच्च यथेश्वरज्ञानादितो व्यावृत्तं तथा मुक्तिकालीनसुखादितोऽपि व्यावृत्तम्, मुक्तिकालीनसुखादेरुत्पद्यमानत्वेऽपि विनाशित्वाभावादिति शरीरादिकं विनाऽपि मुक्तिसुखं स्यादेवेति तत्त्वविनिश्चयस्य स्वर्गसिद्धिसुखावहत्वं युक्तमेवेति ॥ २॥
शास्त्रवार्तासमुच्चयस्य सप्रयोजनत्वेन वक्तव्यत्वे व्यवस्थिते यस्यां शास्त्रवार्तायां न कस्यापि विप्रतिपत्तिस्तामुपदर्शयति
दुःखं पापात् सुखं धर्मात् , सर्वशास्त्रेषु संस्थितिः।
न कर्तव्यमतः पापं, कर्तव्यो धर्मसंचयः ॥३॥ दुःखमिति-दुःखं पीडालक्षणम् , तत् पापाद् अधर्माद् भवति; सुखम् आह्लादलक्षणम् , तद् धर्मात् प्रवृत्ति निवृत्तिरूगद् भवति; इयं सर्वशास्त्रेषु सकलदर्शनेषु, संस्थितिः सम्यग् व्यवस्था समीचीना मर्यादा, समीचीनत्वमत्राविप्रतिपत्तिविषयत्वम् । यत एवम् अतः दुःखहेतुत्वात् , पापम् अशुभकर्म हेतु, न कर्तव्यम्, किं तर्हि कर्तव्यं? कर्तव्यो धर्मसञ्चयः सुखहेतुतया सञ्चितः साङ्गो धर्मः कर्तव्यः ॥ ३ ॥
पापहेतुपरिहार-धर्महेत्वासेवनाभ्यां पापहेतोरकरणं धर्महेतोः करण च भवतीति क्रमेण पाप-धर्महेतूनाह
हिंसाऽनृतादयः पञ्च, तत्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः ॥ ४॥ विपरीतास्तु धर्मस्य, एत एवोदिता बुधैः ।
एतेषु सततं यत्नः, सम्यक् कार्यः सुखषिणा ॥५॥ हिंसाऽनृतादय इति-अत्र “हिंसानृतादयः पञ्च हिंसाऽनृत-स्तेयाब्रह्म-परिग्रहाः, भादिशब्दादवरोधेऽप्यनृतग्रहणं प्राधान्यख्यापनार्थम् । तत्त्वाश्रद्धानमेव च मिथ्याऽभिनिवेश इति भावः । क्रोधादयश्च चत्वारः