________________
१४
शास्त्रवार्तासमुच्चयः।
[प्रथमः ननु दुःखं मा भूदित्याकारकदुःखप्रागभावविषयकेच्छया प्रवृत्तेर्दुःखप्रागभाव एव पुरुषार्थः, तज्ज्ञानं त्विदानीं सदष्यन्यथासिद्धत्वाद्भवदप्यनीहितमेवेति चेत्? सत्यम्-अवेद्यस्य दुःखप्रागभावस्य ज्ञानादिहानिरूपानिष्टानुबन्धित्वेन प्रवृत्त्यनिर्वाहकत्वात् , अनिष्टाननुबन्धीष्टसाधनत्वज्ञानस्यैवेच्छाद्वारा प्रवृत्तिजनकत्वात् , एतेन 'यद्यपि दुःखनिवृत्तिर्यदा जायते तदानीमशेषविशेषगुणोच्छेदाढुःखनिवृत्तिज्ञानं मा भवतु, किन्तु पूर्वदुःखनिवृत्तिज्ञानं भाविदुःखनिवृत्तिविषयकमासीदेवेति तदव्यवहितपूर्वकालीनतद्विषयत्वतो वेद्यत्वं तस्य सम्भवति, वर्तमानोऽप्यचिरमनुभूयते' इति निरस्तम् , स्वसत्ताकाललक्षणवर्तमानकालवृत्तिज्ञानविषयत्वस्वरूपवेद्यत्वस्यैव पुरुषार्थत्वोपयुक्तत्वात् , पूर्वकालीनज्ञानविषयत्वलक्षणवेद्यत्वस्य पुरुषार्थत्वप्रयोजकत्वे मूर्छाकाले मम दुःखनिवृत्तिर्भविष्यतीति ज्ञानविषयत्वस्य मूर्छाकालीनदुःखनिवृत्तावपि सम्भवेन तथावेद्यतया मूर्छाद्यवस्थायामपि प्रवृ. क्यापत्तेः। यदपि-"अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः" [छान्दो०८. १२.१] इति श्रुतेर्मुक्तौ सुखाभावः सिध्यति, द्वित्वनिष्ठप्रकारतानिरूपितविशेव्यत्वाभिन्नप्रतियोगित्वसम्बन्धावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यताकत्वे सति द्वित्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाभिन्नप्रतियोगित्वसम्बन्धावच्छिन्नदुःखत्वावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यताकस्य बोधस्य तत्राभ्युपगमेन द्वित्वेनोपस्थितयोः प्रियाऽप्रिययोः प्रत्येकं निषेधान्वयस्य वक्तुं शक्यत्वाद्" इति, तदपि न समीचीनम् -'अभावबोधो हि विशिष्टवैशिष्टयमर्यादां नातिशेते' इति नियमेन द्वित्वस्य प्रतियोग्यंशे प्रकारत्वमात्रलक्षणस्योपलक्षणत्वस्याभावेन प्रतियोगितावच्छेदकत्वस्यावश्यम्भावेन प्रियाप्रियोभयत्वावच्छिन्नप्रतियोगिताकाभावस्यैवोक्तश्रुत्या प्रतिपादनात् , आख्यातार्थस्पर्शनकर्तृत्वान्वितनजीभावप्रतियोगिप्रियाप्रियगामितयैव द्वित्वस्योपपन्नत्वात् , एवं चैकसत्त्वेऽपि द्वयं नास्तीति प्रतीतेरशरीरेऽप्यात्मनि सुखसत्त्वेऽपि दुःखस्याभावतः सुखदुःखोभयाभावस्य सम्भवेनोक्तश्रुत्या तादृशाभावबोधनेऽपि न तदानी सुखाभावसिद्धिः । यदि च मुक्तौ सुखं नास्त्येवेत्युररीक्रियते, तदा
"सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभिः ॥ १॥ [ ] इत्यादिवचनविरोधः कथं परिहरणीयः ? न चावच्छेदकतासम्बन्धेन सुखा