________________
खबकः] स्याद्वादवाटिकाटीकासङ्कलितः प्रेक्षावतां मुक्तौ प्रवृत्तिरुपपन्नेति न प्रेक्षावत्प्रवृत्त्यन्यथानुपपत्तिर्मुक्तिसुखे प्रमाणमिति चेत् ? न-अन्नपानादावपि लोकानां सुखार्थितयैव प्रवृत्तः, यदि लोका मनपानादौ क्षुदादिदुःखनिवृत्त्यर्थमेव प्रवर्तन्ते तर्हि स्वाद्वन्नपानादित इवास्वादबपानादितोऽपि क्षुदादिदुःखनिवृत्तिः स्यादेवेति किमिति ते अस्वान्नादिकं परित्यज्य स्वान्नादिकमुपाददते इत्यस्वादुपरित्याग-स्वादूपादानान्यथानुपपत्तिरेव तेषामपि सुखार्थितयैवान्न-पानादौ प्रवृत्तिरित्यत्र प्रमाणम् ; यदि अस्वाद्वन्नपानादितो यादृशी क्षुदादिदुःखनिवृत्ति ततोऽन्यादृशी क्षुदादिदुःखनिवृत्तिः स्वाद्वन्नपानादितो भवेत् तर्हि विशिष्टक्षुदादिदुःखनिवृत्तये अस्वादुपरित्यागेन स्वादूपादानं युज्येतापि, न चैवम् , क्षुदादिदुःख निवृत्तेरभावरूपतया तत्र विशेषाभावेन कारणविशेषस्याप्रयोजकत्वात् , न च चिकित्सायां यथा रोगजन्यदुःखनिवृत्त्यर्थमेव प्रवृत्तिस्तथा मोक्षेऽपि दुःख निवृत्त्यर्थमेव प्रवृत्तिरिति वाच्यम् , तत्रापि दुःखध्वंसनियतागामिसुखार्थितयैव प्रवृत्तेः; अपि च, मोक्षे दुःखाभावेऽपि सुखस्यानभ्युपगमे सुखहानेरनिष्टत्वप्रतिसन्धानस्य प्रवृत्तिप्रतिबन्धकस्य सद्भावात् तदानीं सुखं नास्तीति ज्ञाने सति प्रवृत्तिरेव न स्यात् , न च विरक्ताः सुखमपि हातुमिच्छन्तीति वैराग्यात् सुखहानेरनिष्टत्वं न प्रतिसन्धीयत इति वाच्यम् , वैषयिकसुखस्य दुःखानुविद्धत्वेन तद्धानेरनिष्टत्वप्रतिसन्धानाभावेऽपि प्रशमप्रभवस्य दुःखाननुविद्धतया सर्वथा काम्यत्वेन तद्धानेरनिष्टत्वप्रतिसन्धानस्थावश्यम्भावात् , अनुभवसिद्ध चास्मिन् न विप्रतिपत्तव्यम् , किञ्च, दुःखनाशे सति सुखं मे भविष्यतीति प्रतिपन्धानतः सुखेच्छयैव दुःखनाशे प्रवर्तन्ते लोकाः, न तु दुःखे द्वेषमात्रात् तन्नाशार्थं प्रवर्तन्ते, अन्यथा मूर्छादितोऽपि दुःखनाशोऽवश्यं भवतीति दुःखद्वेषान्मूछोदावपि तेषां प्रवृत्तिः प्रसज्येत; जायत एव बहुदुःखग्रस्तानां मरगादावपि दुःखद्वेषमात्रात् प्रवृत्तिरिति तु बालानां वचनमनादेयम् , विवेकिप्रवृत्तिरेव सुखेच्छामन्तरेण न सम्भवतीत्यस्थानाधिकृतत्वात् , दुःखग्रस्तास्तु मरणकामनावन्तोऽविवेकिन एवेति; अत एव
"दुःखभावोऽपि नावेद्यः पुरुषार्थतयेष्यते।"
"नहि मूर्छाद्यवस्थार्थ प्रवृत्तो दृश्यते सुधीः ॥"[ ] इत्यत्र सुधीरित्युक्तम् , मुक्तौ त्वशेषगुणोच्छेदाभ्युपगमे तदानीं दुःखाभावस्थावेद्यस्यैव पुरुषार्थत्वं परानुमतम् , तच्च न युक्तमित्युक्तवचनाभिप्रायः ।