SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ १२ शास्त्रवासिमुच्चयः। [प्रथम वाव्यम् ,सुखवाचकस्याप्यानन्दशब्दस्य च्छान्दसत्वादेव नपुंसकलिङ्गत्वोप्राने, न च "आनन्दं ब्रह्मणो रूपं तच मोक्षे प्रतिष्ठितम्" [ ] इत्यत्र मानन्दब्रह्मणोर्भेदावगतये ब्रह्मण इति षष्ठी घटते, अभेदे तु भेदबोधिकायावस्या अनुपपत्तिरिति वाच्यम्, राहु-शिरसोरभेदेऽपि 'राहोः शिरः' इत्योद्रे षष्ठीदर्शनेन प्रकृतेऽप्यभेदे षष्ठीसम्भवादिति चेत् ? न-जीवमात्रस्य ब्रह्मात्मकत्वे सत्येव ब्रह्मसुखाभेदप्रतिपादकस्यागमस्य जीवाभिन्नसुखप्रतिपादकत्वम्, एवं चात्मनोऽनुभूयमानत्वेन तदभिन्नस्य नित्यसुखस्य संसारदशायामप्यनुभूयमानत्वं स्यात् , न चात्मनोऽनुभवे तदभिन्नतया सुखमप्यनुभूयत एव, देहात्माऽभेदभ्रमवासनादोषादात्यन्तिकदुःखोच्छेदरूपव्यञ्जकाभावाद्वा सुखत्वं तु तत्र नानुभूयत इति वाच्यम्, "व्यक्तेरभेदस्तुल्यत्वं संकरोऽथानवस्थितिः। रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः ॥ १ ॥"[ ] इति वचनात् तुल्यत्वस्य जातिसमनियतत्वस्य जातिभेदबाधकत्वेनात्मसुखयोरभेदे सुखत्वस्यात्मत्वसमनियतत्वेनात्मत्वान्यजातित्वासिङ्ख्या संसारदशायामात्मन्यात्मत्वानुभूत्या सुखत्वाननुभवस्य वक्तुमशक्यत्वात् ; किञ्च सुखस्य ब्रह्माभिन्नत्वेन ब्रह्माभिन्नजीदाभिन्नत्वाभ्युपगमे “सर्व ब्रह्ममयं जगत्"[ते०वि० ६.३८.] ब्रह्मैवेदं सर्वम्" [नृसिंहो०७.३.] इत्यादिवचनात् सर्वस्य ब्रह्माभिन्नत्वेन दुःखमपि ब्रह्माभिन्नत्वात् सुखं स्यात् , यदि च “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्" [ ] इति जैमिनिसूत्रप्रामाण्यात् क्रियार्थकस्यैव वेदस्य प्रामाण्यं क्रियाभिन्नार्थकस्य तु सिद्धार्थत्वेन न प्रामाण्यमिति “ब्रह्मैवेदं सर्वम्" [ नृसिंहो ७.३.] इति वेदस्य सिद्धार्थत्वेन न प्रामाण्यमतो न दुःखस्य ब्रह्मात्मकत्वम् , तर्हि "नित्यं विज्ञानमानन्दं ब्रह्म" [ ] इति वेदस्यापि न प्रामाण्यमतो न सुखस्य ब्रह्मात्मकत्वमिति मुक्तौ नित्यसुखे मानाभाव एवेति चेत् ? अत्र स्याद्वादनिष्णाताः-यदि मुक्तौ सुखं न भवेत् तर्हि प्रेक्षावतां तत्र प्रवृत्तिरेव न स्यात् , प्रवर्तन्ते च प्रेक्षावन्तः सुखार्थिनो मुक्ताविति प्रेक्षावत्प्रवृत्यन्यथानुपपत्तिरेव मुक्तिसुखे प्रमाणम् । ननु सुखं यथा पुरुषार्थस्तथा दुःखाभावोऽपि पुरुषार्थः, अत एव क्षुदादिदुःखनिवृत्त्यर्थमन्नपानादौ प्रवर्तन्ते लोकाः, एवं च मुक्तौ सुखाभावेऽपि दुःखाभावरूपपुरुषार्थस्य सद्भावात् तदर्थित्या www
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy