SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ खबकः] स्याद्वादवाटिकाटीकासङ्कलितः युज्यते, प्रामाण्या-प्रामाण्यनिश्चयशाली स्याद्वादी तु मध्यस्थो माध्यस्थ्यप्रतिबन्धादेव न तत्र द्वेषभाग भवतीति । अत एव स तत्त्वविनिश्चयः स्वर्ग-सिद्धिसुखावह इति-ज्ञानोपशमाभ्यां दान-संयमादौ शुद्धप्रवृत्त्या च स्वर्ग-सिद्धिसुखावहः-स्वर्गमुक्तिसुखप्रापक इत्यर्थः । ननु सुखत्वावच्छिन्नं प्रति धर्मस्य धर्मत्वेन कारणत्वमवस्तमिति स्वर्गसुखभोक्तरि जीवे धर्मस्य सत्त्वात् स्वर्ग सुखमवश्यं भावीति न तत्र विप्रतिपत्तिः, अशेषविशेषगुणोच्छेदे सत्येव मुक्तिरिति मुक्त जीवे धर्मात्मकस्य विशेषगुणस्याप्यत्यन्तमुच्छेदाद् धर्मात्मककारणाभावादेव न मुक्तिसुखसम्भवः; न च सुखत्वावच्छिन्नं प्रति धर्मत्वावच्छिन्नं कारणमित्येवं सामान्यतः सुख-धर्मयोः कार्यकारणभाव एव नेष्यते, किन्तु विजातीयसुखं प्रति विजातीयादृष्ट कारणमिति विशिष्यैव कार्यकारणभावः, विशिष्यैव वा दर्शादिकर्मणामदृष्टरूपव्यापारसम्बन्धेन विजातीयसुखं प्रति कारणत्वमिति मुक्तिसुखस्य तत्तददृष्टजन्यतावच्छेदकधर्मानाक्रान्तत्वादद्दष्टाभावेऽपि तदुत्पत्तिरविरुद्धेति वाच्यम् , तथा सति मुक्तिसुखं प्रति न किञ्चिद् विशिष्यकारणमिति विशेषसामग्रीविरहादेव तदुत्पत्त्यसम्भवात् ; ननु मुक्तिसुखं नित्यमेव, न च नित्यस्य कारणाभावादभावप्रसञ्जन सम्भवति, प्रमाणं च तत्र “नित्यं विज्ञानमानन्दं ब्रह्म" [ ] इति श्रुतिरेव, न चानित्यसुखस्य नित्यब्रह्माभिन्नत्वासम्भवान्नित्यसुखे सिद्ध सति तत्र ब्रह्माभेदबोधनं ब्रह्माभेदबोधने च नित्यसुखसिद्धिरित्यन्योन्याश्रय इति वाच्यम्, यथा स्वर्गत्वस्य दुःखासम्भिन्नसुख विशेषत्वलक्षणस्य सुखत्वावान्तररूपस्य वा पूर्वमसिद्ध्या तदवच्छिन्नं प्रति यागस्य कारणत्वबोधनासम्भवेऽपि स्वर्गत्वमुपलक्षणीकृत्य सुखविशेषे यागस्य कारणता श्रुत्या बोध्यते तथा सुखत्वमुपलक्षणीकृत्य सुखविशेषे ब्रह्माभेदबोधनस्य श्रुत्या सम्भवात् , यद्वा नित्यं सुखं बोधयित्वा तत्र ब्रह्माभेदोऽपि श्रुतिर्बोधयति, न चैवं नित्यं सुखमस्ति, तच्च ब्रह्माभिन्नमित्येवं विधेयभेदाद् वाक्यभेदोऽनुषज्यत इति वाच्यम् , परस्परनिराकासबोधद्वयजनकत्वे सत्येव वाक्यभेदोऽत्र तु परस्परसाकाङ्क्षबोधजनकत्वलक्षणवाक्यैकवाक्यत्वेन वाक्यभेदाभावात् , न च सुखबोधकस्यानन्दशब्दस्य पुल्लिँङ्गत्वमित्यत्रानन्दशब्दस्य सुखवाचकत्वे नपुंसकलिङ्गत्वमनुपपन्नमित्यानन्दोऽस्यास्तीत्यर्शआदित्वादच्प्रत्ययविधानतः सिद्धमानन्दं सुखवदित्यर्थकमेव नपुंसकलिङ्गमिति.
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy