________________
शास्त्रवार्तासमुच्चयः ।
[ प्रथम
विशिष्टबुद्धीनां वा प्राणिनां माध्यस्थ्य- प्रमोदविषयत्वान्न तेषु प्रेक्षावतो हितकाम्यया प्रवृत्तिर्घटत इति सत्त्वानामित्यस्य विशेषणम् - अल्पबुद्धीनामिति - असङ्कलिततत्तच्छास्त्रार्थग्रहणाप्रवणमतीनामित्यर्थः । शास्त्रबहिर्भूतमङ्गलकरणतः स्वशास्त्रसिद्धावपि यत् प्रणम्य परमात्मानमित्येवमाद्यचरणेन मङ्गलनिबन्धनं तच्छ्रोतॄणामनुषङ्गतोऽपि मङ्गलोपपत्त्यर्थम् । वक्ष्यामि हितकाम्यया सत्त्वानामल्पबुद्धीनामित्यनेन कर्तुरनन्तरं प्रयोजनमुपदर्शितम्, परम्परप्रयोजनं तु कर्मक्षयान्मुक्तिरेव शास्त्रवार्तासमुच्चय मित्यनेन समुच्चितशास्त्रवार्तालक्षणोऽभिधेय उक्तः, एतावता शास्त्रवार्ताधिगमकामा बालबुद्धयोऽधिकारिणोऽर्थादावेदिताः, तत एव चोक्तग्रन्थस्य शास्त्रवार्तालक्षणाभिधेयेन समं प्रतिपाद्यप्रतिपादकभाव -- लक्षणसम्बन्धोऽप्यावेदित एवेति ॥ १ ॥
"
१०
सामान्यतोऽल्पबुद्धि हि तलक्षणस्यावान्तरप्रयोजनस्य वक्ष्यामि हितकाम्ययेत्यादिनो तत्वेऽपि विशेषप्रयोजनानुबन्धितया नामग्राहं तन्निर्देष्टुं शास्त्रवार्ता समुच्चयं खौति
यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः । जायते द्वेषशमनः, स्वर्ग-सिद्धिसुखावहः || २ || यं श्रुत्वेति-यं - शास्त्रवार्तासमुच्चयम्, श्रुत्वा - तात्पर्यतः परिज्ञाय,
"वेदान्तानामशेषाणामादि-मध्या-ऽवसानतः ।
ब्रह्मात्मन्येव तात्पर्यमिति धीः श्रवणं भवेत् ॥ १ ॥" [ 1 इत्यादिनाऽन्येनापि तात्पर्यतोऽर्थावधारणस्यैव श्रवणत्वेन व्यपदेशात् । सर्वशास्त्रेषु वैशेषिक बौद्धादिसकलदर्शनेषु । प्रायः बाहुल्येन । तत्त्वविनिश्वयः उपादेय-तद्भावावगमोऽर्थात् प्रामाण्याप्रामाण्यविवेकः, अनेकान्तवाद्युक्ततत्त्वनिर्णयः प्रमाणम्, एकान्तवाद्युक्ततत्त्व निर्णयोऽप्रमाणमिति यावत् । जायते भवति । कथम्भूतस्तत्त्वविनिश्चयो भवतीत्यपेक्षायामाह - द्वेषशमन इतिमत्सरनाशन इत्यर्थः, अनेन विशेषणेनेतरदर्शनेष्वप्रामाण्यज्ञानात् तत्रानिष्टसाधनत्वज्ञाने द्वेषोदयात् संसारानुबन्ध्येव बहुशास्त्रज्ञानमित्याशङ्काऽपहस्तिता भवति, यतः प्रामाण्यनिश्चय उपादेयेऽर्थे निष्कम्पप्रवृत्तिजनकतयैवोपयुज्यते, अनुपादेयेऽर्थे प्रवृत्तिप्रतिबन्धकतयैवानुपादेयैकान्तनिश्चयेऽप्रामाण्यनिश्चयस्तूप
wwwwww