________________
स्वबकः]
स्याद्वादवाटिकाटीकासङ्कलितः
स्वावधिकोत्कृष्टत्वप्रकारकज्ञानानुकूलव्यापारः, निरुक्तज्ञानं च मत्त उत्कृष्टोऽयमित्याकारकम् । परमात्मानमिति च नमस्कारकर्मोपदर्शकम् , परमश्वासावात्मा परमात्मा तमिति व्युत्पत्तिः, द्वितीयार्थस्तु विशेष्यत्वम् , तत्र प्रकृत्यर्थस्य परमात्मन आधेयत्वसम्बन्धेनान्वयः, विशेष्यत्वस्य च नमस्कारघटके ज्ञाने निरूपकत्वसम्बन्धेनान्वयः; आत्मनि परमत्वं च यद्यपि सकलकर्मरहितत्वं तथापि तद्विवक्षणे सिद्धस्यैव नमस्कारकर्मत्वं स्यान्न तु तीर्थकृताम् , तेषां नमस्कारोऽपि हितावह इत्यतः क्षीणघातिकर्मत्वं तदिहाभिप्रेतम् , स च देवानामिन्द्रादीनामन्यपूज्यानामपि पूज्य इति देवाधिदेवमित्यर्थः । तं प्रणम्य किमिति समानकर्तृकोत्तरक्रियापेक्षायामाह-वक्ष्यामीति-अभिधास्य इत्यर्थः, अत्र कर्माकाङ्क्षया शास्त्रवार्तासमुश्चयमित्यन्वेति, शास्त्राणां-बौद्ध वैशेषिकादिदर्शनानां या वार्ताःसिद्धान्तप्रवादास्तासां समुच्चयम्-एकत्र संकलनम् , “कृदभिहितो भावो द्रव्यवत् प्रकाशते"[ ] इति न्यायाश्रयणात् समुच्चिताः शास्त्रवार्तास्ता इत्यर्थः, तेन वैशेषिकादिप्रवादानामेवाभिधानकर्मस्वं न तु तत्समुच्चयस्येति तत्कर्मकत्वस्याभिधानक्रियायामन्वयासम्भवेऽपि न क्षतिः, द्रव्यपरकृदर्थेन समुच्चितशास्त्रवार्तारूपेणान्वितस्य द्वितीयार्थकर्मत्वस्य तदुत्तरपदार्थेऽभिधानेऽन्वयस्योपपत्तेः । न चैवं "प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वम्" [ ] इति नियमविरोधः, प्रकृते द्वितीयारूपप्रत्ययस्य समुच्चयरूपप्रकृत्यातिरिक्तशास्त्रवार्तारूपान्वितस्वार्थकर्मत्वबोधकत्वाश्रयणादिति वाच्यम् , “तेषां मोहः पापीयान् नामूढस्येतरोत्पत्तेः" [न्यायसू०४.१.] इत्यत्र नामूढस्येतरोत्पत्तेरित्यस्यामूढस्येतरोत्पत्त्यभावादित्यर्थस्येतरोत्पत्तिप्रकृतिकस्य पञ्चमीप्रत्ययस्येतरोत्पत्तिरूपप्रकृत्यातिरिक्तनजाभावान्वितस्वार्थबोधकत्वत एव सम्भवेनोक्तनियमस्य दूषितत्वात् ; “पाणिपादं वादय" इत्यत्र समाहारे द्वन्द्वस्य समाहारार्थकत्वानुरोधेन पाणिपादमित्यस्य पाणिपादसमाहाररूपार्थस्य प्रत्ययार्थे कर्मत्वे यथा स्वाश्रयनिरूपितवृत्तित्वसम्बन्धेनान्वयस्तथा प्रकृतेऽपि शास्त्रवार्तासमुच्चयरूपप्रकृत्यर्थस्याभिधानकर्मत्वे प्रत्ययार्थे स्वाश्रयनिरूपितवृत्तित्वसम्बन्धेनान्वय इति प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वनियमस्य न विरोध इति त्वनुभवानारूढत्वादुपेक्ष्यम् । कथं वक्ष्यामीत्याकाङ्क्षायामाह-हितकाम्ययेति-अनुग्रहेच्छयेत्यर्थः । केषां हितकाम्ययेत्यपेक्षायामाह-सत्वानामिति-प्राणिनामित्यर्थः, तत्वबुद्धीनां