SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुचवः। [प्रथमः मेव श्रुतिकल्पनात्" इति, यथाचारमेवेत्यत्रैवकारोपादानात् यत्फलकामया मजलं न शिष्टैराचरितं तत्फलकामपुरुषकर्तव्यतया मङ्गलस्यावबोधिका श्रुतिर्न कल्पयितुं शक्येत्यावेदितम् । न च मङ्गलस्यैकस्यापि विघ्नध्वंसादिसर्वफलत्वे एकमङ्गलप्रयोगादपि विघ्नध्वंसाधनेकफलापत्तिर्युगपदेव स्यादिति वाच्यम् , श्रुतावेकस्यानेकफलकत्वस्यावबोधनेऽपि सर्वफलसाहित्यस्याविवक्षणात्, अनेकफलावबोधकश्रुतौ सर्वफलसाहित्यस्य विवक्षितत्वे "सर्वेभ्यो दर्श-पूर्णमासौ" [ ] इति श्रुतावप्युद्देश्यफलसाहित्यविवक्षातो दर्श-पूर्णमासाभ्यां युगपत् सर्वफलावाप्तिः प्रसज्येत; एवं चैकस्य मङ्गलस्य विघ्नध्वंसाद्यनेकफलकत्वेऽपि यत्फलकामनया यत्र यन्मङ्गलं क्रियते तन्मङ्गलात् तत्र तदेव फलं भवतीति कादम्बर्यादौ समाप्तिकामनया मङ्गलं कृतमित्यत्र प्रमाणाभावेन तत्रान्यफलकामनयैव मङ्गलं कृतमतोऽन्यदेव विघ्नध्वंसादि ततो जातं न समाप्तिः” इत्याहुः । एकोद्देशेन क्रियमाणादप्यनेकफलकात् कर्मण उद्देश्या-ऽनुद्देश्य-प्रधानाप्रधान बहुविधफलोत्पत्तेर्दर्शनेन समायुद्देशेनाक्रियमाणात् समाप्तिफलकादपि मङ्गलात् कादम्बर्यादौ समाप्तिन जातेति मननं न युक्तमित्यन्ये । "सीसमइमंगलपरिग्गहत्थमेत्तं तदभिहाणं" [शिष्यमतिमङ्गलपरिग्रहार्थमात्रं तदभिधानम् । गाथा-३०] इति विशेषावश्यकभाष्यादिदमत्र ज्ञायतेयदुत, समग्रमेव शास्त्रं मुक्तिफलकतत्त्वज्ञाननिमित्तत्वाच्छ्रेयोभूतं मङ्गलम् , अथापीष्टदेवनत्यादिलक्षणस्य मङ्गलस्य शास्त्रघटकतया यदादौ गुम्फनं तच्छिष्याणां मङ्गलमवश्यं कर्तव्यमिति बुद्धयर्थम् , अन्यथा शास्त्रघटकानामशेषाणामपि वाक्यानां मङ्गलवाक्यत्वेन नत्यादिलक्षणमङ्गलवाक्यस्य शास्त्राघटकत्वेऽवि. शेषाद् वाक्यान्तराणामपि शास्त्राघटकत्वप्रसङ्गे शास्त्रं चरमवर्णमात्रमेव प्रसज्येतेति, तस्मात् सफलत्वाद् ग्रन्थकारस्य ग्रन्थादौ मङ्गलाचरणं युक्तमेवेति । __ तदत्र इष्टदेवतास्तुतिस्वरूपं प्रणम्य परमात्मेति भावमङ्गलं विघ्नविनायकौघोपशान्तये, वक्ष्यामीत्यादिचरणत्रयेण प्रयोजना अधिकारि सम्बन्धा-अभिधेय-स्वरूपानुबन्धचतुष्टयस्योक्तिः, अनुबन्धत्वं च प्रवृत्तिप्रयोजकज्ञानविषयत्वम् । अक्षरार्थस्तु-प्रणम्य सम्यग् मनो वाक्-कायैर्नत्वा, नमस्कारे सम्यक्त्वं च भक्ति-श्रद्धातिशयकरणकत्वम् , भक्तिश्रद्धातिशयकरणकस्येष्टदेवनमस्कारस्य विनध्वंसजननद्वाराऽभीष्टसिद्धिप्रदत्वेन समीचीनत्वं स्थादेवेति; नमस्कारश्च
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy