SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः । मङ्गलत्वाविरोधात्" इति । ननु लाघवाद् दुरितनिवृत्त्यसाधारणकारणत्वरूपत्वेऽपि मङ्गलत्वस्य न तदात्मना तेन विघ्नध्वंसं प्रति कारणत्वम् , दुरितनिवृत्ति प्रति दुरितनिवृत्तिकारणत्वेन कारणत्वे दुरितनिवृत्तिकारणत्वस्यैव दुरितनिवृत्तिकारणत्वस्यावच्छेदकत्वेनावच्छेदकाऽवच्छेद्ययोरेकत्वेनात्माश्रयप्रसङ्गात्, किन्तु मङ्गलवावान्तरधर्मेण नतित्वादिना प्रातिस्विकरूपेणैव मङ्गलस्य विघ्नध्वंसं प्रति कारणत्वं वाच्यम् , तच्च नतिमन्तरेणापीष्टदेवादिस्मरणेन विघ्नध्वंसस्य भावेन व्यतिरेकव्यभिचारान्न सम्भवतीति चेत् ? न-निश्चयनयेनाऽऽत्मनः परिणतिविशेषस्य भावविशेषस्यव मङ्गलत्वमिति नत्याद्यभिव्यङ्ग्यस्य तस्यैव दुरितक्षयं प्रति कारणत्वेन तस्य यत्र यत्र दुरितक्षयस्तत्र सर्वत्र सत्त्वेन व्यभिचाराप्रसक्तेः, अपवर्तनीयविघ्नध्वंसं प्रत्येव च भावविशेषलक्षणस्यापि मङ्गलस्य कारणत्वम् , अतो भावविशेषलक्षणमङ्गलसद्भावेऽप्यनपवर्तनीयस्य निकाचितकर्मस्वरूपस्य बलवतो विघ्नस्य न ध्वंस इति न तत्रान्वयव्यभिचारः । वस्तुतो व्यवहारनये शब्दाद्यात्मकनत्यादीनामपि मङ्गलत्वमिति नतित्वादिना प्रातिस्विकरूपेण मङ्गलस्य विघ्नध्वंसं प्रति कारणत्वमेव, व्यभिचारस्तु नत्यव्यवहितोत्तरविघ्नध्वंसं प्रति नतेः, स्मरणाव्यवहितोत्तरविघ्नध्वंसं प्रति स्मरणस्य कारणत्वमित्येवं कार्यतावच्छेदककोटौ तत्तत्कारणाव्यवहितोत्तरत्वस्य निवेशाद् वारणीय इति । . परे तु-"विघ्नध्वंस विघ्नप्रागभावपरिपालन-समाप्तिप्रचयगमन शिष्टाचारपरिपालनानां सर्वेषामेव विनिगमनाविरहान्मङ्गलफलत्वम् , मङ्गलं विघ्नध्वंसफलकं विघ्नध्वंसकामनया शिष्टैराचरितत्वात् , मङ्गलं विघ्नप्रागभावपरिपालनफलक "विनप्रागभावपरिपालनकामनया शिष्टैराचरितत्वात् , मङ्गलं समाप्तिप्रचयगमनफलकं समाप्तिप्रचयगमनकामनया शिष्टैराचरितत्वात् , मङ्गलं शिष्टाचारपरिपालनफलकं शिष्टाचारपरिपालनकामनया शिष्टैराचरितत्वात् , यद्धि यत्कामनया शिष्टैराचरितं तत् तत्फलकं यथा दर्शपूर्णमासादिकं स्वर्गफलकामनया शिष्टैराचरितं स्वर्गफलकमित्यनुमानमत्र प्रमाणम् , शिष्टाचारानुसारेण "विघ्नध्वंसकामो मङ्गलमाचरेत् , विघ्नप्रागभावपरिपालनकामो मङ्गलमाचरेत् , समाप्तिप्रचयगमनकामो मङ्गलमाचरेत् , शिष्टाचारपरिपालनकामो मङ्गलमाचरेत्" इत्येवं श्रुतयोऽप्यत्र कल्पनीया भवन्ति, ता अप्युक्तार्थे प्रमाणम् , तदुक्तम्-"अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाण स्यात्" [जैमि० १.३.१५.] इति न्यायेन यथाचार
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy