________________
- शास्त्रवार्तासमुच्चयः ।
[प्रथम सिद्धिहेतुत्वम् ; तथा शिष्टाचारपरिपालनजन्यधर्मविशेषोऽपि नाभीष्टसिद्धिप्रतिबन्धकविघ्नमविनाश्याभीष्टसिद्धिहेतुरिति समाप्तिहेतुतया विघ्ननाशस्यावश्यकत्वे तस्यैव मङ्गलफलत्वस्यौचित्याच्च । अपि च, शिष्टाचारपरिपालनं न मङ्गलफलं किन्तु तज्जनकम् , यतो मङ्गलं विधिबोधितकर्तव्यताकं शिष्टाचारविषयत्वादित्येवं शिष्टाचारेण विधिबोधितकर्तव्यत्वमनुमाय मङ्गले प्रवृत्तिरेव शिष्टाचारपरिपालनम्, मङ्गलविधेयकप्रवृत्तिरूपशिष्टाचारपरिपालनेन च मङ्गलमाचरितं भवतीति मङ्गलजनकं तत् कथं मङ्गलफलमिति । न च शिष्टैः सर्वत्रेष्टकर्मणि मङ्गलमाचर्यत इति मङ्गलाचरणमाचारप्राप्तमिति तदनाचरणमाचारप्राप्तातिलङ्घनम् , तत्र प्रत्यवायो भवतीति प्रत्यवायित्वपर्यवसन्नाशिष्टत्वशङ्कानिरास एवं शिष्टाचारपरिपालनम् , तच्च मङ्गलफलमेवेति वाच्यम्, ग्रन्थादौ मङ्गलस्याकर्ताऽयं अन्यकर्ता शिष्टो न वेति शङ्कातः शिष्याणां तत्कर्तृकग्रन्थाध्ययनावधानाभावेऽपि समाप्तिप्रतिबन्धाभावेन तथाविधशिष्टाचारपरिपालनस्य प्रकृतानुपयुक्तत्वात् , यदकरणे प्रत्यवायस्मरणं तस्य नित्यकर्मण एव शिष्टाचारप्राप्तस्यातिलङ्घने प्रत्यवायित्वपर्यवसन्नाशिष्टत्वशङ्कोदेति, मङ्गलं तु कामनाविशेषनियतकर्तव्यताकं काम्यं कर्म, तच्च कामनाविशेषादेवानुष्ठीयत इति कामनाविशेषाभावे तदकरणेऽपि न प्रत्यवाय इति विशेषदर्शनेन निरुक्ताशिष्टचशङ्कानिरास उपजायत इति तल्लक्षणशिष्टाचारपरिपालनस्य मङ्गलफलत्वासम्भवाच्च ।
तस्मात् सम्भाव्यमानफलानां मङ्गलफलत्वस्योक्तदिशाऽसम्भवादन्यत्र च मङ्गलफलत्वस्य केनापि वादिनाऽनभ्युपगमादिति यावत्फल विशेषशून्यत्वान्निष्फलं मङ्गलं ग्रन्थादौ नाऽचरणीयमिति चेत् ? अत्रोत्तरं स्यादादनिष्णाता इदं प्रकटयन्ति, तथाहि-विघ्नध्वंसत्वावच्छिन्नं प्रति मङ्गलं कारणमिति मङ्गलस्य विघ्नध्वंस एव फलम् , यच्च मङ्गलाभावेऽपि प्रायश्चित्तादितो विघ्नध्वंसस्योत्पादेन व्यतिरेकव्यभिचारान मङ्गलं विघ्नध्वंसकारणमिति तन्न सङ्गतम्, प्रायश्चित्तादीनामपि मङ्गलत्वेन मङ्गलाभावे कुत्रापि विघ्नध्वंसस्य भावाभावात ; यदि प्रारीप्सितप्रतिबन्धकदुरितनिवृत्त्यसाधारण कारणत्वं मङ्गलत्वमित्येवं पराभिमतं मङ्गललक्षणंस्यात् तर्हि प्रारीप्सितप्रतिबन्धकदुरितनिवृत्तिकारणे प्रायश्चित्तादौ मङ्गलत्वं न भवेदपि, यदा तु स्याद्वादवादिभिर्लाघवाद् दुरितनिवृत्त्यसाधारणकारणत्वमेव मङ्गलत्वं स्वीक्रियते तदा निरुक्तलक्षणं मङ्गलत्वं प्रायश्चित्तादेरपि सुसङ्गतम् । अत एव स्वाध्यायादेरपि मङ्गलत्वमामनन्ति देवसूरयः, उक्तं चाकरे-"स्वाध्यायादेरपि.