SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ -स्तबकः ] स्याद्वादवाकाटीका सङ्कलितः कारीरीतो वृष्टिप्रतिबन्धकावग्रहनिवृत्तौ स्वकारणकलापादेव वृष्टिर्भवतीति । ननु विघ्नध्वंसो जायतामितीच्छया न मङ्गलाचरणं किन्तु प्रारब्धं कर्म निर्विघ्नं परिसमाप्यतामिति कामनयैवेति विघ्नध्वंसपूर्वकसमाप्तीच्छया मङ्गलाचरणात् समाप्तिरेव मङ्गलफलम्, यद् यदिच्छया क्रियते तस्य तत् फलमिति नियमस्य स्वर्गेच्छया क्रियमाणे दर्शादियागे स्वर्गफलकत्व दर्शनेनावधारणादिति चेद् ? नकारीरीमन्तरेणापि वृष्टेरन्यत्र दर्शनेन वृष्टीच्छया क्रियमाणस्यापि कारीरीयागस्य न वृष्टिः फलं किन्त्ववग्रहनिवृत्तिरेव फलमित्युक्तनियमस्य प्रायिकत्वेन "विशेष्ये बाधे सति सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः” इति न्यायात् 'निर्विघ्नं परिसमाप्यताम् इति कामनाया विघ्नध्वंसमात्रावगाहित्वस्यैवावधारणेन विघ्नध्वंसफलकत्वस्यैव न्याय्यत्वाद्” इति, तदपि न विदुषामानन्दकन्दोल्लासायालम् - मङ्गलं विनाऽपि प्रायश्चित्तादितो विघ्नध्वंसस्य भावेन व्यतिरेकव्यभिचारेण विघ्नध्वंसत्वावच्छिन्नं प्रत्यपि मङ्गलस्य कारणत्वासम्भवात् । न च प्रायश्चित्ताद्यनाश्य विघ्नध्वंसत्वं मङ्गलकार्यतावच्छेदकम् तस्य प्रायश्चित्तादिनाइयविघ्नध्वंसेऽभावेन नोक्तव्यभिचार इति वाच्यम्, तथा सति मङ्गलजन्यविघ्नध्वंसे व्यभिचारेण प्रायश्चित्तादीनामपि न विघ्नध्वंसत्वावच्छिन्नं प्रति कारणत्वं किन्तु मङ्गलानाश्यविघ्नध्वंसत्वावच्छिन्नं प्रति प्रायश्चित्तादीनां कारणत्वं वाच्यम्, तत्र च प्रायश्चित्तादिनाश्यत्वग्रहे प्रायश्चित्ताद्यनाश्य विघ्नध्वंसत्वावच्छिन्नं प्रति मङ्गलस्य कारणत्वग्रहः, तस्मिन् सति मङ्गलानाश्यविघ्नध्वंसत्वावच्छिन्नं प्रति प्रायश्चित्तादेः कारणत्वम्, इत्येवमन्योन्याश्रयस्य जागरूकत्वात् । " यदपि "विघ्नो मा भूदिति कामनया मङ्गलाचरणे प्रवृत्तेर्विघ्नप्रागभाव एव मङ्गलफलम्” इति मतम्, तदपि न रमणीयम् - प्रागभाव मात्र स्यानादित्वेन विघ्नप्रागभावस्याप्यनादितया मङ्गलजन्यत्वासम्भवात् । अप्राप्तस्य प्राप्तिलक्षणो यो योगस्तदात्मकजन्यत्वस्याभावेऽपि प्राप्तस्य संरक्षणात्मकक्षेमात्मकजन्यत्वं तस्यापि सम्भवतीति योग-क्षेमसाधारणमङ्गलजन्यत्वं विघ्नप्रागभावस्य मङ्गलफलत्वमित्यपि न समीचीनम् स्वत आगन्तुकसमयविशेषस्वरूपसम्बन्धात्मकस्य विघ्नप्रागभावपरिपालनलक्षणक्षेमस्यापि स्वत एव भावेन मङ्गलासाध्यत्वात् । 9 शिष्टाचारपरिपालनं मङ्गलफलमित्यपि न युक्तम्, यतः शिष्टाचारपरिपालनेन धर्मविशेष उत्पद्यते, तेन चाभीप्सितसिद्धिरित्येवं शिष्टाचारपरिपालनस्यादृष्टद्वारा भीप्सितसिद्धिहेतुत्वकल्पनापेक्षया वरं मङ्गलस्यैवाऽदृष्टद्वाराऽमीप्सित
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy