________________
शास्त्रवातसमुचयः ।
[ प्रथम= विघ्नाः पञ्च च मङ्गलनाश्या इति प्रायश्चित्ताद्यनाश्यस्वानधिक संख्य विघ्न स्थलीयसमाप्तित्वस्य कार्यतावच्छेदकतयाऽऽश्रयणे तत्सङ्ग्रहः स्यादेवेति वाच्यम्, यत्र बलवानेक एव विघ्नो बहुभिरपि मङ्गलैर्न नाशयितुं शक्यस्तत्र ग्रन्थसमाप्तिर्न मङ्गलैरुपजायते, तत्र मङ्गलसत्त्वेऽपि निरुक्तकार्यतावच्छेदकाक्रान्तायाः समाप्तेरभावेनान्वयव्यभिचारात् ; यत्र च बलवदेकमेव मङ्गलं बहून् विघ्नान् नाशयति मङ्गलतो ग्रन्थसमाप्तिर्भवति तस्यां समाप्तौ मङ्गलकार्य भूतायां प्रायश्चित्ताद्यनाश्यस्वाधिकसङ्ख्य विघ्न स्थलीयत्वेन निरुक्तसमाप्तित्वस्याभावेन मङ्गल निरूपितकार्यतान्यूनवर्तिनस्तस्य तादृशकार्यतावच्छेदकत्वासम्भवादन्यू नानतिरिक्तवृत्तिधर्मस्यैवावच्छेदकत्वमिति नियमात् 1 अपि च, समाप्तौ तादृशविघ्नस्थलीयत्वं किं निरुक्तविघ्न विशिष्टत्वं किं वा निरुक्तविघ्नोपलक्षितत्वम् ? नाद्यः - विशेषण - विशेष्ययोर्भाव एव विशिष्टस्वभाव इति मङ्गलतो विशिष्टसमाप्तिभावे विशेषणीभूतस्य विघ्नस्यापि भावापत्तेरिति विघ्नध्वंसार्थं क्रियमाणं मङ्गलं विघ्नमेव जनयेदिति तथाऽभ्युपगन्तुर्महदनिष्टमापादितम् ; तथा यदा समाप्तिस्तदा तत्प्रतिबन्धकदुरितविशेषोऽपीत्युन्मत्तादन्यो नैवमभ्युपगन्तुं शक्तः; यः - नियतोपलक्ष्यतावच्छेदकाभावात्, यद्धि उपलक्ष्यं भवति तत्रोपलक्षणस्योपलक्ष्यतावच्छेदकं नियतम्, यथा 'काकवन्तो देवदत्तस्य गृहाः' इत्यत्रोपलक्षणस्य काकवत्त्वस्य देवदत्तगृहत्वमुपलक्ष्यतावच्छेदकं नियतम्, प्रकृते तु प्रायश्चित्ताद्यनाश्यमङ्गलानधिकसङ्ख्यक विघ्नस्योपलक्षणतयाऽभिमतस्योपलक्ष्यतावच्छेदकतयाऽभिमतं सामान्यतः समाप्तित्वं न नियतम्, तस्य मङ्गलाधिकसङ्ख्यकदुर्बल विघ्नस्थलीय समाप्तौ मङ्गलं विनोत्पद्यमानतयाऽऽरेकित समाप्तावपि च सत्त्वात्, तस्य कार्यतावच्छेदकत्वं व्यभिचारान्न सम्भवति, यच्च मङ्गलमात्र प्रभवसमाप्तिगतं तन्न किञ्चिदस्ति यस्योपलक्ष्यतावच्छेदकत्वं सम्भाव्येतापीति मङ्गलस्य समातिमात्रे हेतुत्वमिति प्राचीनमतं न सङ्गतम् ।
नान्त्यः-1
wwwww
यदपि नव्यानामिदं मतम् - यदुत, “कार्यमात्रे प्रतिबन्धकाभावस्य कारण
www.w
मिति कार्यविशेषे समाप्तौ प्रतिबन्धकाभावविशेषस्य विघ्नध्वंसस्य कारणत्वमावश्यकमेव, प्राञ्चोऽपि मङ्गलस्य व्यापारतया विघ्नध्वंसस्य समाप्तिं प्रति कारणत्वमुशन्तीत्यावश्यकत्वाद् विन्नध्वंस एवं मङ्गलफलम्, समाप्तिस्त्वसति प्रतिबन्धके बुद्धि-प्रतिभादिस्वकारणकलापादेव भवति, यथा वृष्टिकामपुरुष कृत