SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ तबकः] स्याद्वादवाटिकाटीकासङ्कलितः भवतस्तद्धर्मावच्छिन्नं प्रति तद्धर्मावच्छिन्नस्य कारणत्वं गृह्यते, यथा दण्डत्वाव'च्छिन्नस्य घटत्वावच्छिन्नेन समं 'दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः' इत्येवमन्वय-व्यतिरेकग्रहौ भवत इति घटत्वावच्छिन्नं प्रति दण्डत्वावच्छिन्नस्य कारणत्वं गृह्यते, प्रकृते तु समाप्तित्वावच्छिन्नस्य न मङ्गलत्वावच्छिन्नेन सममन्वय-व्यतिरेकग्रहौ सम्भवतः, मङ्गलसत्त्वेऽपि कादम्बरीग्रन्थस्य समातेरभावेन तत्सत्त्वे तदभावरूपान्वयव्यभिचारग्रहस्य, मङ्गलाभावेऽपि च नास्तिकनिर्मितग्रन्थस्य समाप्तेर्भावेन तदभावे तत्सत्त्वरूपव्यतिरेकव्यभिचारग्रहस्य चान्वयव्यतिरेकग्रहप्रतिबन्धकस्य भावात् । न चोपदर्शितान्वय-व्यतिरेक. व्यभिचारग्रहाभ्यां समाप्तित्वावच्छिन्नं प्रति मङ्गलत्वावच्छिन्नस्य कारणत्वग्रहासम्भवेऽपि स्वसमसङ्ख्यकविघ्नस्थलीयसमाप्तित्वावच्छिन्नं प्रति मङ्गलत्वावच्छिन्नस्य कारणत्वमुररीक्रियते तद्रहस्तु सम्भवत्येव, कादम्बरीग्रन्थे तु यावन्ति मङ्गलानि ततोऽधिकसङ्ख्यका विघ्ना इति मङ्गलसमसङ्ख्यकवितस्थलीयसमाप्तित्वस्वरूपकार्यतावच्छेदकधर्मानाक्रान्तत्वात् कादम्बरीग्रन्थसमाप्तेर्मङ्गलभावेऽभावेऽपि नान्वयव्यभिचारः, नास्तिकग्रन्थस्य समाप्तिं दृष्ट्वा जन्मान्तरीयमङ्गलकल्पनेन तन्मङ्गलसमसंख्यकविघ्नस्थलीयसमाप्तित्वरूपकार्यतावच्छेदकधर्माकान्तनिरुक्तसमाप्तिकार्यभावस्य जन्मान्तरीयमङ्गलरूपकारणसद्भावनियतत्वेन न तत्र व्यतिरेकव्यभिचारोऽपीति वाच्यम् , विनाधिकसङ्ख्यकमङ्गलस्थले तत्रत्यग्रन्थ समाप्तेर्निरुक्तकार्यतावच्छेदकधर्मानाक्रान्तत्वेन मङ्गलतस्तदभावप्रसङ्गात् । यदि च ... मङ्गलसद्भावे भवन्त्या निरुक्तग्रन्थसमाप्तेर्निरुक्तकार्यतावच्छेदकधर्मानाक्रान्तत्वेन न मङ्गलकार्यत्वमिति कारणान्तरत एव तद्भावो मङ्गलं तु तत्राकिञ्चित्करमेव, तबन्यत्रापि मङ्गलस्य समाप्तिं प्रति कारणत्वं किमिति कल्पनीयम् ? तदृष्टान्तेनान्यत्रापि मङ्गलातिरिनकारणत एव समाप्तेः सम्भवात् । न च स्वानधिकसङ्ख्यकविघ्नस्थलीयसमाप्तित्वमेव कादम्बरीग्रन्थेऽन्वयव्यभिचारपरिहाराय कार्यतावच्छेदकं स्वीक्रियते, विघ्नाधिकसङ्ख्यकमङ्गलस्थले तु समाप्तेर्मङ्गलानधिकसङ्ख्यकविघ्नस्थलीयत्वेन सङ्ग्रहः स्यादेवेति वाच्यम् , यत्र दश विघ्नास्तेषां मध्यात् पञ्च प्रायश्चित्तेन नाशिताः, अथ च पञ्च मङ्गलानि, तत्र समाप्तेर्मङ्गलाधिकसङ्ख्यकविघ्नस्थलीयत्वेन मङ्गलानधिकसङ्ख्यविघ्नस्थलीयसमाप्तित्वलक्षगकार्यतावच्छेदकधर्मानाक्रान्तत्वान्मङ्गलतोऽनुत्पत्तिप्रसङ्गात् । न च तत्र प्रायश्चित्तनाश्याः पञ्ज
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy