________________
शास्त्रवार्तासमुच्चयः।
[प्रथमः इत्यं सत्यपि तं बालाः, शास्त्रवार्तासमुच्चयम् । नावधारयितुं शक्काः, सूक्ष्मज्ञानविवार्जेताः ॥ ३ ॥ तेषां बोधाय मन्दानां, व्याख्यैषा शब्दविस्तृता ।। अल्पार्थाऽप्युपयुक्ता स्यादतो यत्रोऽत्र न वृथा ॥ ४ ॥ अनुष्टुब्युग्मम् ॥ साहाय्यं हारिभद्रं वच इह कुरुतात् स्वप्रचारैकसारे,
कान्ता नव्या यशोगीरपि लसतुतरामत्र नव्यप्रबन्थे । इत्येवंदृष्टिभाजा जिनवचनसमुल्लासनैकान्तबुद्धया, ___ व्याख्या दृब्धा मयेयं न च विगतफला भाविनी मूलनद्धा ॥५॥ स्रग्धरा ॥ सेयमेकान्ततः श्रान्ते, प्रान्तेऽपि प्राणिनि श्रिते। । स्थाद्वादवाटिका टीका, विबुधामोददा तता ॥ ६ ॥ सुमनोरागरमणीया, भव्यालिगानगोचरा। .
निःसीमशमसाम्राज्यं, ददानाऽस्तु दिने दिने ॥ ७ ॥ अनुष्टुब्युग्मम् ॥ स्व-परोपकारप्रवणो भगवान् धीमान् श्रीमानाचार्यों हरिभद्रसूरिोहाचा न्तरारिनिकरमूलाज्ञानान्धतिमिरावृतज्ञानालोकं लोकमुपचिकीर्षुस्तत्त्वोद्भासनामलनिदानं शास्त्रवार्तासमुच्चयाभिधानं प्रकरणमारभमाणः, “शिष्टाः क्वचिदमीष्टे कर्मणि प्रवर्तमाना मङ्गलकरणपुरस्सरमेव प्रवर्तन्ते" इति शिष्टाचारपरिपालनपरः'
"श्रेयांसि बहुविनानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, कापि यान्ति विनायकाः ॥ १॥ [ ] इति प्रकरणस्यास्य प्रारिप्सितस्य सम्यग्ज्ञान हेतुत्वाच्छ्योभूतस्य सम्भाव्यते विनबाहुल्यमिति चाकलयन् , निर्विनग्रन्थपरिसमाप्तये मङ्गलस्यावश्यकर्तव्यत्वमनुसन्दधानः, प्रेक्षापूर्वकारिणः प्रयोजनाद्यनुबन्धचतुष्टयशून्ये न प्रवर्तन्त इति ग्रन्थादौ प्रयोजनादिकमवश्यमेवाभिधेयमित्युपात्तदृष्टिरिष्टदेवपरमात्मप्रणामस्वरूपमङ्गलास्मक प्रेक्षावत्प्रवृत्त्यनुकूलानुबन्धचतुष्टयप्रतिपादनप्रवणमिमं श्लोकमादावाह
प्रणम्य परमात्मानं, वक्ष्यामि हितकाम्यया।
सत्त्वानामल्पबुद्धीनां, शास्त्रवार्तासमुच्चयम् ॥१॥ प्रणम्येति । ननु यद्धर्मावच्छिन्नस्य यद्धर्मावच्छिन्नेन सममन्वय-व्यतिरेकग्रही
WWW
WWW.