SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः ५७ न्येन स्मरणे चैत्रेणानुभूतस्य मैत्रेणादिस्मरणप्रसङ्गः स्यादिति नान्यानुभूतमन्यः स्मरतीत्युपदर्शितकार्यकारणभावबलाद् व्यवस्थितौ शरीरस्य चैतन्ये बाल्येऽनुभूतस्य तारुण्ये स्मरणं न स्यात् , बाल युवशरीरयोर्भेदात् , बाल-युवशरीरपरिणामभेदस्य द्रव्यभेदमन्तरेणानुपपत्तेः । न चोपादानोपादेयभाव आश्रयभेदेऽप्यनुभव-स्मरणयोर्नियामक इत्युपादानगतानुभवत उपादेये स्मरणमिति पूर्वपूर्वशरीरस्योत्तरोत्तरशरीरं प्रति उपादानतया बालशरीरगतानुभवाद् युवशरीरे स्मरणं भेदेऽपि भविष्यतीति वाच्यम् , अच्छिन्नकरादिकं छिन्नकरादिकं प्रत्यनुपादानमिति च्छिन्नकरादेरच्छिन्नकरानुभूतास्मरणप्रसङ्गात् । न चाच्छिन्नकरशरीरावयवकरेण यदनुभूतं तत् छिन्नकरात्मकखण्डशरीरोपादानापरकिञ्चिदवयवेनाप्यनुभूत मिति च्छिन्नकरात्मकखण्डशरीरोपादानावयवगतवासनायाश्छिन्नकरात्मकखण्डशरीरे सङ्क्रमात् तत्र स्मरणं भविष्यतीति वाच्यम् , अनुभवितुरेकस्य शरीरस्य यावन्तोऽवयवास्तेषु प्रत्येकमनुभवात्मकचैतन्येऽनुभवितणामवयवानां नानात्वादनेकस्मरणप्रसङ्गात् , यावदवयवेष्वेकमेव चैतन्य व्यासज्यवृत्तीत्येकस्यैव व्यासज्यवृत्तेः स्मरणस्य सम्भव इत्यप्यभ्युपगमो न युक्तः, तथा सति बहुत्वसङ्ख्याया यथा यत्किञ्चिदाश्रयनाशाद् विनाशस्तथाऽनुभवात्मकचैतन्यस्याप्येकस्य व्यासज्यवृत्तेरेकावयवविनाशे विनाशो भवेत् , एवं च पूर्व. चैतन्यापगमे उत्तरचैतन्यमपि नोत्पद्यतेति छिन्नकरादौ स्मरणानुपपत्तिर्वज्रलेपा. यिता । यदि च परमाणुगतत्वमेव चैतन्यस्येति तदाश्रयपरमाणोविनाशाभावाच्छिन्नकरेऽपि तदाश्रितानुभवात्मकचैतन्यसद्भावात् स्मरणोपपत्तिरित्युच्यते तदा परमाणोरतीन्द्रियत्वात् तद्गतरूपादिकं यथा प्रत्यक्षं न भवति तथा चैतन्यमपि तद्तमतीन्द्रियत्वान्न प्रत्यक्षं स्यादिति चैतन्याननुभवप्रसङ्गः। यथा रूपाणां भिन्नत्वेऽपि तत्स्कन्धस्यैक्यं तथा विज्ञानानां भिन्नत्वेऽपि तत्स्कन्धस्यैक्यमिति तत्प्रत्यक्षं स्मरणादिकं चोपपद्यत इति चेत् ? न-उपादानोपादेयभूतयोः शरीरयोभिन्नत्वेन 'योऽहमनुभवामि सोऽहं स्मरामि' इत्यभेदावमर्शानुपपत्तेः । अनु. भवितृ-स्मोंः शरीरयोर्भेदेऽपि सौसादृश्यदोषेण वैसादृश्यस्य तिरस्कारादुक्ताभेदावमर्श उपपत्स्यते, तथा च क्षणभङ्गपक्षे स्मृतिकुर्वद्रूपपरमाणुपुञानामेव स्मृतिनियामकत्वात् स्मृत्युपपत्तिः स्यादिति चेत् ? न स्थैर्यस्य तत्साधकप्रत्यभिज्ञाप्रामाण्यस्योपपादयिष्यमाणत्वेन क्षणभङ्गस्यैवासम्भवेन तदाश्रयणेन स्मृत्युपपादनस्य कर्तुमशक्यत्वात् ॥ ४१ ॥
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy