________________
शास्त्रवार्तासमुच्चयः ।
[प्रथमः आत्मनो लोकसिद्धत्वमुपपत्त्यन्तरेण व्यवस्थापयति
दिव्यदर्शनतश्चैव, तच्छिष्टाव्यभिचारतः ।
पितृकर्मादिसिद्धेश्व, हन्त ! नात्माऽप्यलौकिकः॥४२॥ दिव्यदर्शनतश्चैवेति-मन्त्रविशेषेणाकृष्टस्य विशिष्टशक्तिमत्पुरुषविशेषलक्षणपात्रागमनादिस्वरूपे पात्रावतारादौ दिव्यस्य-विशिष्टरूपस्य पुरुषस्य, यदवेक्षणं स्पष्टं भवति तस्साच्चैवेत्यर्थः । हन्त ! इति खेदे । आत्माऽप्यलौकिको न लोकागम्य भात्मा न, किन्तु लोकगम्य एव भूतव्यतिरिक्तचैतन्यलक्षण आत्मा, यतो जडत्वान्मन्त्रविशेषाकृष्टस्य भूतविशेषस्यागमनमेव न संभवति, भूते विशिष्टशक्तिरपि नास्ति, एवं तच्छिष्टाव्यभिचारतः तेन-दिव्यदर्शनविषयेण मन्त्रविशेषाकर्षणत आगतेन पुरुषविशेषेण, यद्वचनं शिष्टं-कथितं 'तवोत्तरकाले इदं भविष्यति, पूर्वमिदं सञ्जातम्' इत्यादिरूपम् , तस्याव्यभिचारादविसंवादिप्रवृत्तिजनकत्वादपि, अलौकिक आत्मा नेति संबध्यते, तेन यद् यथा क्रथितं तत् तथैव भवतीत्यत्र कारणमतिशयिततद्विषयकज्ञानमेव, तदन्तरेण तद्वचनस्याविसंवादिप्रवृत्तिजनकत्वलक्षणाव्यभिचारासम्भवात् , तच्च ज्ञानमाश्रयीभूतात्मानमन्तरेण न सम्भवतीति । तथा पितृकर्मादिसिद्धेश्च येनाचारविशेषेण प्रसन्नाः सन्तः परलोकगताः पितरो वरप्रदानादिफलं प्रयच्छन्ति स वरप्रदानादिफलकपरलोकगतपितृप्रीत्यनुकूल आचारविशेषः पितृकर्म, आदिपदाद् विषबालनादि गृह्यते, तेषां निरुक्तपितृकर्मविषबालनादीनां सिद्धेस्तत्फलान्यथानुपपत्तेरपि आत्मा लोकसिद्धो भवति, यतस्तत्फलनिर्वाहकादृष्टरूपातिशयशालित्वं पितृकर्मादिकालतत्फलककालवर्तिन आत्मन एव संभवति, तत्तत्फलनिर्वाहकातिशयस्याऽदृष्टस्यालौकिकत्वेऽपि, दिव्यदर्शन-तद्विषयपुरुषकथितवचनाव्यभिचार-पितृकर्मादीनां तत्फलानां च प्रत्यक्षप्रमाणविषयत्वेन लौकिकानां व्यापारतया कारणकार्यान्तरालकालपतितकल्पितालौकिकातिशयसहकारेऽपि तत्र शक्ति-लक्षणान्यतरात्मकवृत्तिसव्यपेक्षशब्दव्यापाराभावात् करणफललौकिकत्वनिबन्धनलोकसिद्धत्वमात्मनोऽभिमानविषयो भवतीति, अतिशयश्च सुख-दुःखादिलक्षणभोगं प्रति सामाना. धिकरण्यप्रत्यासत्यैव कारणमतस्तस्य भोक्तनिष्ठत्वमेव न तु भोग्यनिष्ठत्वम् , तदुक्तं कुसुमाञ्जलौ नैयायिकप्रकाण्डेन उदयनाचार्येण
W
Www