________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः "संस्कारः पुंस एवेष्टः, प्रोक्षणा-ऽभ्युक्षणादिभिः ।
स्वगुणाः परमाणूनां, विशेषाः पाकजादयः॥" [स्तबक.१ का०११] इति, व्याख्यातं चेदं पद्यं वर्द्धमानोपाध्यायेन, तथाहि-"प्रोक्षणादिजन्यातिशयसिद्धावपि तस्य व्रीहिनिष्ठत्वं न सिद्धयतीत्याह-संस्कार इति-अतिशयधर्मिग्राहकमानादेव लाघवसहकृतात् स एक एव सिध्यति पुरुषनिष्ठश्च, तथाहि-त्रीहिगतत्वे न तावत् सकलबीहिनिष्ठ एक एव, एकव्रीहिनाशे तन्नाशापत्तेः, न च यावदाश्रयनाशात् तन्नाशः, लाघवादाश्रयनाशस्यैव तन्त्रत्वात् , वृक्षादौ किञ्चिदाश्रयनाशात् तन्नाशेऽपि खण्डपटन्यायेन पुनरुत्पत्तिरित्यनेको वाच्यः, न चैवमेकबीहिनाशे फलानुदयः, तावत्संस्काराणामभावादिति वाच्यम् , संस्कारत्वेनैव प्रयोजकत्वात् , किञ्चित्तत्समवधानेऽपि दण्डादिवत् कार्यसत्वादिति गौरवम् ; न च विनिगमकाभावः, प्रोक्षणमपूर्वजनकं दृष्टद्वाराभावे सति कालान्तरभाविफलजनकतया विहितत्वात् , यागवत् , न चाप्रयोजकत्वम् , यागादीनामपूर्वजनकतायामुक्तरूपस्यैव प्रयोजकत्वात् , अन्यस्याननुगतत्वादिति भावः, कृष्यादिना व्यभिचाराभावं परोक्तदृष्टान्तस्यासिद्धिं चाह-वगुणा इति-तत्र दृष्टद्वारस्यैव सम्भवान्न व्यभिचारः, नवा तत्र परमाणौ अतिशय इति दृष्टान्तः साध्यविकल इत्यर्थः; यद्यपि पाकजा रूपादयोऽपि तनिष्ठातिशया एवेति न साध्यवैकल्यम् , तथाप्याधेयशक्त्यभावमात्रे तात्पर्यम्, न चाधेयशक्ति-पाकजयोरतीन्द्रियत्वाविशेषात् कल्पनायामविशेषः, परमाणावयविरूपादिसजातीयपाकजरूपाद्युत्पत्तेरावश्यकत्वात् , तत एव नियतकार्यजननोपपत्तेः शक्त्याधानकल्पने गौरवादिति भावः” इति ।
उक्तरीत्या लोकसिद्धस्य कालस्याश्रयणे, आत्मनोऽपि लोकसिद्धस्याश्रयणं चार्वाकस्य स्यादित्यभ्युपगमवादादुपदर्शितम् , वस्तुतो लोकसिद्धाश्रयणनपि चार्वाकस्य न युज्यते, तथाहि-अनुभवसिद्धार्थस्यापलापः कर्तुमशक्य इत्युपगमस्तावच्चार्वाकस्य न युक्तः, तदभ्युपगमबाधितत्वात् , कथमन्यथा जात्यादिवैशिष्टयस्थानुभवसिद्धस्यापलापश्चार्वाकस्य शोभेत । ननु यद्यपि जात्यादिवैशिष्टयमनुभूयते, तथापि जात्यादिवैशिष्ट्यं परीक्ष्यमाणं सन्नोपपद्यत इति बाधितोऽनुभवस्तस्य, अबाधितानुभवविषयस्यैवापलापो न युक्त इत्यभ्युपगम एवास्माकम् , तस्य न किञ्चिदपगतमिति चेत् ? तर्हि अनुगताकारविषयत्वेन विशिष्टज्ञानमात्र एव