________________
६०
शास्त्रवार्तासमुच्चयः ।
[ प्रथमः
भवतां प्रामाण्याभावनिश्चयाद् विशिष्टज्ञाननिबन्धनस्य व्यवहारमात्रस्यैव बाधितानुभवप्रभवत्वेन बाधितत्वं प्रसज्येत; यदाऽपि यत्रानुगताकारविषयकत्वं तत्र प्रामाण्याभाव इत्येवं प्रामाण्याभावव्याप्यत्वमनुगताकारविषयकत्वेन निश्चीयते तदाऽपि व्यवहारकारणे विशिष्टज्ञानेऽप्रामाण्यसन्देहात् तत्प्रभवे व्यवहारेऽपि बाधितत्वसन्देहः स्यात् ; ननूभयकोटिकः संशयो भावाभावलक्षणकोटिद्वयस्मरणे सत्येव समुन्मीषति नान्यथेत्येक कोटेरस्मरणेऽप्रामाण्यसंशयाभावाद् बाधे सत्यपि धाप्रतिसन्धानात् प्रवृत्तिलक्षणो व्यवहारः स्यादिति चेत् ? तत्र बाधप्रतिसन्धानमस्मृतैककोटेः पुरुषस्य प्रामाण्याप्रामाण्य सन्देहाभावात् मा भवतु व्यवहारबाधः, भवतस्तु प्रामाण्याभावव्याप्यविशिष्टविषयकत्व निर्णय रूपविशेष -- दर्शनशालिनो बाधितवैशिष्ट्य विषयकज्ञानात् प्रवृत्तिर्न स्यादेव, प्रवृत्तावप्रामाण्यज्ञानानास्कन्दितज्ञानस्यैव कारणत्वात् ; ननु निर्विकल्पकं न प्रमा नापि भ्रमः, तत्र प्रामाण्याभावव्याप्तं विशिष्टविषयकत्वमेव नास्ति, तथा चाप्रामाण्यज्ञानानास्कन्दिताद् धर्मिमात्र विषयकान्निर्विकल्पकाद् धर्मिमात्रविषयिण्या एव प्रवृत्तेरुपगमात् तादृशप्रवृत्तिलक्षणव्यवहारोऽबाधितप्रसर एवेति चेत् ? एवं सति "तान्त्रिकलक्षणलक्षितमेवानुमानं प्रतिक्षिप्यते, न तु स्वप्रतिपत्तिरूपं व्यवहारचतुरम्” इति स्वाभ्युपगम एव विस्मृतो भवता, व्यवहारचतुरत्वस्य सविकल्पक एव भावात्, निर्विकल्पानन्तरभाविनः सविकल्पकादेव प्रवृत्तेरुपलभ्यमानत्वात्, सविकल्पकात्मकोत्तरज्ञानेन विनष्टस्य निर्विकल्पकस्य सविकल्पकोत्तरभाविप्रवृत्त्युपयोगित्वं कथं नाम श्रद्धेयम् ; ननु सविकल्पकज्ञानस्यापि धर्म-धर्मिणो वैशिष्ट्यांश एवाप्रामाण्यम्, न तु धर्म्यंशे स्वप्रकाशत्वांशे च, तथा च धर्म्यशेऽप्रामाण्यज्ञानानास्कन्दिताद् विशिष्टज्ञानाद् धर्म्यंशे प्रवृत्तिः स्यादेव, शुक्त्यादाविदं रजतमित्यादिज्ञानानां च विशिष्टवासनोपनीतरजताद्य लीकधर्म्यवगाहित्वेन न धर्म्यशेऽपि प्रामाण्यमिति तेभ्यो जायमानाः प्रवृत्तयो विसंवादिन्यो भवन्तीति तदात्मकव्यवहाराणां निर्विषयत्वलक्षणो बाधो भवतीति, एवं चोक्तज्ञानानां धर्म्यशेऽप्यप्रामाण्ये "सर्वं ज्ञानं धर्मिण्यभ्रान्तम्” इति प्रवादस्यानुपपत्तिरिष्टत्वान्न दोषावहेति चेत् ? न - अस्मिन् ज्ञानेऽलीकधर्म्यवगाहिताया निमित्तं विशिष्टवासना न त्वन्यस्मिन् ज्ञाने इत्यत्र विनिगमकस्य कस्य चिदभावाद् विशिष्टज्ञानमात्र एव विशिष्टालीकलक्षणधर्म्यवगाहित्वे विशिष्टवासनासामर्थ्यस्याविशेषेण कल्पयितुं शक्यतया विशिष्टज्ञानमात्रस्थल एव व्यवहारबाधापत्तेर्भवतामनिवार्यत्वात्,