SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः यदि चैवं सर्वविशिष्टज्ञानानां विशिष्टवासनासामर्थ्याद् विशिष्टालीकधर्म्यवगाहित्वतो मिथ्यात्वमेव भवेन्न सम्यक्त्वमिति सम्यग्मिथ्याज्ञानविभागानुपपत्तिः स्यात् , तत्परिहारार्थ केषुचिदेव विशिष्टज्ञानेष्वलीकविशिष्टधय॑वगाहितानिमित्तं विशिष्टवासना, नान्येषु विशिष्टज्ञानेष्वित्येवं कुसृष्टिकल्पनाऽऽद्रियते, तदा लाघवादेकत्र धर्मिणि प्रकारीभूतधर्मसत्त्वम् , अन्यत्र च तदसत्त्वमित्येतावन्मात्र. मेवाश्रयणीयमिति; ननु इदं रजतमित्यत्र पुरोवर्ति रजतमनुभूयते, न च सत्यरजतं तत्रास्ति, ततो रजतस्यानुभूयमानपुरोवर्तित्वोपपत्तये तद्देशेऽलीकं रजतं कल्प्यते, सत्यरजतस्थले तु न मिथ्यारजतकल्पनायाः प्रयोजनं सत्यरजतस्यैव पुरोवर्तित्वादिति विशेषान्नोक्तानुपपत्तिरिति चेत् ? न-इदमिति विषयतायां क्षयोपशमविशेषस्यैव प्रयोजकत्वेन पुरोवर्तितामन्तरेणापि तस्याः सम्भवेन तदर्थ. मतिरिक्तालीकरजतकल्पनाया अयुक्तत्वात् , तथाकल्पनेऽनन्तालीकरजताद्युत्पत्तिविनाशतद्धे त्वादिकल्पने महागौरवात् , यदि ज्ञान-प्रवृत्त्योर्विषयतासम्बन्धेन प्रवृत्तिं प्रति विषयतासम्बन्धेन ज्ञानं कारणमित्येवं समानविषयतया कार्यकारणभावः स्यात् तदा सत्यरजतासमवधानस्थलेऽलीकरजतगोचरप्रवृत्त्यन्यथानुपपत्त्या तजनकज्ञानेऽलीकरजतावगाहित्वस्यावश्यकतया तदर्थमलीकरजताद्युत्पत्ति-विना. शादिकल्पनागौरवं फलमुखत्वान्न दोषावहम् , किन्तु विशिष्याज्ञातेऽपि स्वर्गादिधर्मिणि प्रवृत्तिदृश्यते, सोक्तकार्यकारणभावाभ्युपगमे न भवेदतः प्रकारतासम्बन्धेन प्रवृत्तिं प्रति प्रकारतासम्बन्धेन ज्ञानं कारणमित्येवं समानप्रकारतयैव ज्ञानप्रवृत्त्योः कार्यकारणभाव इति सत्यरजतासमवधानेऽपि रजतत्वप्रकारकशुक्तिविशेष्यकज्ञानाद् रजतत्वप्रकारकशुक्तिविशेष्यकविसंवादिप्रवृत्युपपत्तेरलीकरजताधवगाहित्वं ज्ञाने निष्प्रयोजनत्वान्न कल्पनीयमेवेति दिक् । __ यदपि लोकसिद्धानुमितिरूपज्ञानस्योपगमेऽपि तत्रानुमितित्वं मानसत्वव्याप्यमेवेत्यनुमितिकरणमनुमानमित्येवंलक्षणलक्षितमनुमानप्रमाणं प्रत्यक्षप्रमाण एवान्तर्भवतीति नानुमान प्रमाणान्तरमिति मननं चार्वाकस्य, तदप्यसमीचीनम्वहिव्याप्यधूमज्ञानानन्तरं वह्निमानसस्वीकारे मानसज्ञाने मनोरूपेन्द्रियजन्ये व्याप्तिज्ञानस्याप्रयोजकत्वाद् य एव व्यापकतया गृहीतः स एव मानसे भासत इति नियमाभावाल्लिङ्गादीनामपि तदानीं मानसापत्तेः, बाह्यपदार्थस्य मानसे भाने मनसो ज्ञानलक्षणालौकिकसन्निकर्षस्यैवापेक्षणात् , ज्ञानलक्षणालौकिकसन्निकर्षस्य प्रकृते वह्निव्याप्यो धूम इति व्याप्तिज्ञानरूपस्य विषयतया वह्नाविव
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy