SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ६२ शास्त्रवार्तासमुच्चयः । [प्रथमः धूमेऽपि सम्भवात् ; न च लिङ्गोपहितलैङ्गिकभानाभ्युपगन्तुरुदयनाचार्यस्य मते वह्निव्याप्यधूमवान् पर्वतो वह्निमानित्येवमनुमितिरुपजायते, तत्र यथा लिङ्गभानं तथा मानसेऽपि लिङ्गादिभानमात्रे इष्टापत्तिरिति वाच्यम् , यथाकथञ्चिदुपस्थितानां व्याप्यव्यापकभावानापन्नानामपि घटादीनां तत्र भानापत्तेः, न च वह्निव्याप्यधूमवान् पर्वत इत्यादिपरामर्शादिरूपविशेषसामग्री वह्वयादिभानप्रयोजिका, घट. व्याप्यतद्भूतलत्वादिमत् तद्भूतलमित्यादिपरामर्शादिसामग्री घटादिभानप्रयोजिकेति विशेषसामग्रीविरहादेव न मानसे उच्छृङ्खलोपस्थितघटादिभानापत्तिरिति वाच्यम् , विशेषसामग्रीविरहेऽपि सामान्यसामग्रीबलात् तत्र घटादिभानापत्तेः; न च घटमानसत्वावच्छिन्नं प्रति वह्विव्याप्यधूमवान् पर्वत इति परामर्शस्य प्रतिबन्धकत्वमिति निरुक्तपरामर्शात्मकप्रतिबन्धकाभावरूपकारणस्य निरुक्तपरा. मर्शकालेऽभावान्न तदानीं घटादिमानसापत्तिरिति वाच्यम् , सामान्यसामग्रीबलात् पटादिमानसापत्तिवारणाय पटमानसत्वादीनामपि निरुक्तपरामर्शप्रतिबध्यतावच्छेदकत्वस्याभ्युपगन्तव्यत्वेनानन्तप्रतिबध्यप्रतिबन्धकभावकल्पने गौर. वात् , यत्र वह्निव्याप्यधूमवान् पर्वतः, घटव्याप्यतद्भूतलत्ववञ्च तद्भूतलमिति समूहालम्बनात्मकः परामर्शः, तत्र घटमानसस्यापि सम्भवेन निरुक्तपरामर्शरूपप्रतिबन्धकाभावस्यासत्त्वेन व्यतिरेकव्यभिचारेण कारणत्वासम्भवात् , घटव्याप्यवत्तापरामर्शाभावविशिष्टवह्निव्याप्यवत्तापरामर्शस्य घटमानसत्वावच्छिन्नं प्रति प्रतिबन्धकत्वकल्पने चातिगौरवात् , तस्मात् सामान्यतो मानसत्वावच्छिन्नं प्रत्येव परामर्शादिघटितानुमितिसामग्र्याः प्रतिबन्धकत्वं कल्पनीयमित्यनुमितित्वस्य मानसत्वव्याप्यत्वासम्भवाल्लोकसिद्धानुमितिप्रमोपगमे तत्करणं प्रमाणान्तरं स्यादेवेति; न चैवं मानसत्वावच्छिन्नं प्रत्यनुमितिसामग्र्याः प्रतिबन्धकत्वे अनुमितिसामय्यां सत्यां सुख-दुःखसाक्षात्काररूपभोगोऽपि मानसो न स्यात् तस्यापि प्रतिबध्यतावच्छेदकमानसत्वरूपधर्माकान्तत्वादिति वाच्यम् , सुख-दुःखयोरसं. विदितयोभीनाभावात् सुख-दुःखान्यतरसद्भावेऽवश्यं तत्साक्षात्कार इति भोगान्य. ज्ञानत्वावच्छिन्नं प्रत्येव सुख-दुःखान्यतरस्य प्रतिबन्धकत्वम्, तत्र सुखभिन्नत्वे सति दुःखभिन्नो यस्तद्भिन्नत्वलक्षणं सुख-दुःखान्यतरत्वं गौरवेण नावच्छेदकम् , किन्तु सुख-दुःखोभयमात्रगतं किञ्चित् सामान्यं परिकल्प्य तस्यैव निरुक्तप्रतिबन्धकताया अवच्छेदकत्वमित्येवं भोगान्यज्ञानत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकतया सिद्धजातिविशेषरूपेण सुख दुःखयोरुत्तेजक
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy