________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः स्वम् , तथा च निरुक्तधर्मावच्छिन्नसुख-दुःखनिष्ठप्रतियोगिताकाभावविशिष्टानुमितिसामग्र्या मानसत्वावच्छिन्नं प्रति प्रतिबन्धकत्वस्य कल्पनीयतया सुखदुःखान्यतरसत्त्वे निरुक्तप्रतिबन्धकस्याभावेन सुख-दुःखान्यतरसाक्षात्कारलक्षणस्य भोगस्य सम्भवादिति ।
एतद्विषये न्यायालोके श्रीमद्भिर्यशोविजयोपाध्यायरित्थं विवेचना कृता, तथाहि-"यत् पुनरुक्तम्-अनुमानात्मनोऽभ्युपगमेऽपि तदनतिरेकान्नापसिद्धान्त इति, तन्न-वह्निव्याप्यधूमवान् पर्वत एतादृशनिश्चयस्यैतदुत्तरदहनानुमितित्वस्य जन्यतावच्छेदकत्वेन धर्मविशेषसिद्धौ धर्मिविशेषसिद्धेः प्रमाभेदेन प्रमाकरणभेदात् ; न चैतदुत्तरज्ञानत्वमेव तजन्यतावच्छेदकम् , अप्रामाण्यज्ञानशून्यानाहार्यतादृशनिश्चयं विनाऽपि तदवच्छिन्नस्मृतिसन्देहादिसम्भवेन व्यभिचारात् ; न च गृहीताप्रामाण्यकाहार्यविनश्यदवस्थधूमपरामर्श विशिष्टायामविनश्यदवस्थालोकादिपरामर्शजन्यानुमितौ व्यभिचारवारणायाप्रामाण्यग्रहाभावा-ऽऽहार्यभेदयोजन्यतावच्छेदके निवेशान्नोक्तदोष इति वाच्यम् , अनुगतरूपेण तदनिवेशात् तत्तदप्रामाण्यग्रहाभाव-तत्तदाहार्यभेदादीनां जन्यतावच्छेदके निवेशे गौरवादनुमितित्वस्यैव तत्र निवेशयितुं युक्तत्वात् ; न चाप्रामाण्यप्रकारतानिरूपितोभयावृत्तिधर्मावच्छिन्नविशेष्यतासम्बन्धावच्छिन्नप्रतियोगिताकस्याप्रामाण्यग्रहाभावस्यानुगतस्यैव निवेशान्नोक्तगौरवमिति वाच्यम् , तथापि प्रकृते स्वोत्तरत्वस्य स्वध्वंसाधारकालध्वंसानाधारस्वध्वंसाधारक्षणवृत्तित्वरूपस्य निवेशनीयतया प्रागुत्पन्नसंस्कारवारणायानुमितित्वनिवेशावश्यकत्वात् ; न चापेक्षाबुद्धयात्मक. प्ररामर्श द्वितीयक्षणोत्पन्नतदनात्मकानुमितिसङ्ग्रहायाव्यवहितोत्तरोत्पत्तिकत्वमेव संस्कारव्यावृत्तं वैशिष्ट्यं देयमिति वाच्यम् , स्वध्वंसाधारपदस्यापेक्षाबुद्धिरूपपरामर्शानाधारस्वध्वंसानाधारार्थकत्वे उक्तानुमितिसङ्ग्रहात् , ज्ञानत्वनिवेशे प्रत्यक्षादिष्वनपेक्षितपरामर्शजन्यत्वकल्पनापत्तेरनुमितित्वनिवेशौचित्याच्च; यत्त्व. प्रामाण्यज्ञानाभावस्य पृथक्कारणत्वान्नायं दोष इति, तन्न-तत्तद्वयक्तित्वेनाप्रामाण्यग्रहाभावानां तत्तदप्रामाण्यग्रहाभावविशिष्टधूमादिलिङ्गकानुमितिं प्रति हेतुत्वकल्पनापेक्षया सामानाधिकरण्यविशिष्टविशेष्यतासम्बन्धावच्छिन्नप्रतियोगिताकाप्रामाण्यग्रहाभावानामवच्छेदकत्वकल्पनौचित्यात् ; यत् तु वह्निमनुमिनो. मीत्यनुव्यवसायेनानुमितित्वसिद्धिरिति, तन्न-तत्र विधेयताविशेषस्यैव विषयत्वात् , अन्यथा पर्वतमनुमिनोमीत्यपि स्यात् ; परामर्शजन्यतायामपि स एव