________________
६४ शास्त्रवार्तासमुच्चयः।
[प्रथमः प्रवेश्यतामिति चेत् ? न-तदीयसम्बन्धापेक्षयाऽनुमितित्वीयसम्बन्धस्य समवायरूपस्य कार्यतावच्छेदकतावच्छेदकत्वे लाघवात् ; ननु तथाऽप्यनुमितित्वस्य मानसत्वव्याप्यत्वमेवेति प्रागुक्तम् , तथा च नानुमानस्य प्रमाणान्तरत्वम् ; न चानुमितेः साक्षात्कारत्वे कथं न वहि साक्षात्करोमीति प्रतीतिरिति वाच्यम्, तत्र लौकिकविषयतया साक्षात्काराभावादेव गुरुत्वादाविव तदुपपत्तेः, अत एव पीतं शङ्ख साक्षात्करोमीत्यादिप्रतीतिबलाद् दोषविशेषजन्यतयाऽपि लौकिकविषयतां कल्पयन्ति ग्रान्थिकाः, युक्तं चैतत् , चाक्षुषादिसामग्रीसत्त्वे मानसत्वरूपव्यापकधर्मावच्छिन्नसामग्र्यभावादेवानुमित्यनुदयोपपत्तौ अनुमितित्वादेस्तत्प्रतिबध्यतावच्छेदकत्वाकल्पनेन लाघवात् ; अथानुमित्साद्युत्तेजकभेदेन विभिन्नरूपेण प्रतिबध्य-प्रतिबन्धकभाव आवश्यक इति चेत् ? न-तत्तदिच्छाऽनन्तरोपजायमानभिन्नमानसे जातिविशेष स्वीकृत्य तदवच्छिन्नं प्रति मानसान्यज्ञानसामग्र्याः प्रतिबन्धकत्वकल्पनादनुमितित्वादेर्मानसवृत्तित्वकल्पनौचित्यात् ; अथ तत्तदिच्छाविरहकाले तत्तदिच्छानन्तरोपजायमानमानसापत्तिरिति चेत् ? न-तादृशमानसं प्रति तत्तदिच्छानां हेतुत्वात् ; न चैवं गौरवम् , फलमुखत्वात् , वस्तुत थापादकाभावादेव न तदा तदापत्तिः; अथ सुस्मूर्षाद्यनन्तरोपजायमानभिन्नज्ञाने जातिविशेषं स्वीकृत्य तदवच्छेदेन चाक्षुषादिसामग्र्याः प्रतिबन्धकत्वेऽनुमिति. त्वादेः परोक्षवृत्तितैवास्त्विति चेत् ? न-तदवच्छेदेन स्मृत्यन्यज्ञानसामग्या एव प्रतिबन्धकत्वात् , तजातिविशेषस्य स्मृतित्वव्याप्यस्यैव युक्तत्वात् , तजातिवदन्यज्ञानसामग्रीत्वादिना प्रतिबन्धकत्वेऽपि विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकतया सिद्धस्य प्रत्यक्षत्वस्यैवानुमितौ युक्तत्वादिति चेत् ? अत्र वदन्ति न्यायनिष्णाताः
'तदानीं वह्निमानसस्वीकारे लिङ्गादीनामपि मानसापत्तिः, न चाचार्यमत इव तत्र तद्भानमात्रे इष्टापत्तिः, एवमप्युच्छङ्खलोपस्थितानां घटादीनां तत्र भानापत्तेः; न च तद्धर्मिकतत्संसर्गकतद्धर्मावच्छिन्नव्याप्यवत्ताज्ञानात्मकपरा. मर्शादिरूपविशेषसामग्रीविरहान्न तदापत्तिरिति वाच्यम् , सामान्यसामग्रीवशात् तदापत्तेः, न च घटमानसत्वस्य परामर्शादिप्रतिबध्यतावच्छेदकतया न तदा पत्तिः, पटमानसत्वादेरप्युच्छृङ्खलोपस्थितपटादिभानवारणाय तत्प्रतिबध्यतावच्छेदकत्वेऽनन्तप्रतिबध्यप्रतिबन्धकभावकल्पनापत्तेः; अथ भोगपरामर्शजन्यभिन्नज्ञाने जातिविशेषं स्वीकृत्य तदवच्छिन्नमानसं प्रति तजातीयान्यज्ञान