________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः सामग्र्याः प्रतिबन्धकत्वान्न तदानीं वहीतरज्ञानापत्तिरिति चेत् ? न-मानसत्वस्यैव तत्प्रतिबध्यतावच्छेदकत्वौचित्यात् । न चैवमनुमितिसामग्रयां सत्यां भोगोऽपि कथं भवेदिति वाच्यम् , भोगान्यज्ञानप्रतिबन्धकतावच्छेदकतया समानीतजातिविशेषवतां सुख-दुःखानामुत्तेजकत्वात् । न च तादृशसुख-दुःखकालेऽप्यनुमितिसामग्रीभूतपरामर्शादौ समवायेन तदभावादनुमित्यापत्तिः, सामानाधिकरण्यकालिकोभयसम्बन्धावच्छिन्नप्रतियोगिताकतदभावस्य निवेशाद् इत्यधिकं स्याद्वादरहस्ये" इति ।
एतावता ग्रन्थेन प्रत्येकावस्थायामपि भूतेषु शक्तिरूपेण चैतन्यमस्तीति पक्षश्चार्वाकस्य निराकृतः ॥४२॥ अथ चैतन्यं भूतकार्यमिति कार्यपक्षमपहस्तयितुमधिकरोति
काठिन्याबोधरूपाणि, भूतान्यध्यक्षसिद्धितः ।
चेतना तु न तद्रूपा, सा कथं तत्फलं भवेत् ? ॥४३॥ काठिन्येति–कठिनत्व-कोमलत्व-मृदुत्वादयः पाकादुद्भवन्तोऽनुष्णशीतस्पर्शविशेषाः पृथिव्यात्मकभूतमात्रवृत्तयः, काठिन्यं च रसादीनामप्युपलक्षणम् , अबोधश्चैतन्यलक्षणबोधविरोध्यचैतन्यं जाड्यमिति यावत् , तद्रूपाणितदात्मकधर्मनिरूपितधर्मिताश्रयाणि, काठिन्यादिधमैः समं भूतानां कथञ्चित्तादात्म्यलक्षणोऽविष्वग्भाव एव सम्बन्धस्तेन तद्रूपाणि भूतानीति हृदयम् , भूतानि पृथिव्यादीनि । न चेयं स्वमनीषा, किन्तु प्रत्यक्षप्रमाणादित्थमवसीयत इत्याह–अध्यक्षसिद्धित इति-कठिना पृथिवी, अचेतना पृथिवी, इत्यादिकं यदध्यक्षमबाधितत्वात् सत्यं तदात्मकप्रमाणविषयत्वादित्यर्थः, यद्यपि येनेन्द्रियेण यद् गृह्यते तदभावोऽपि तेनैव गृह्यते नान्येन, चैतन्यं तु मानसप्रत्यक्षेण मनोरूपेन्द्रियेण गृह्यत इति नैयायिकादिभिरुपेयत इति तदभावलक्षणस्या. चैतन्यस्य चक्षुरादिना ग्रहणं यद्यपि न सम्भवति तथाऽपि ज्ञानलक्षणालौकिकप्रत्यासत्या मनसा तत्प्रत्यक्षं ज्ञेयम् , मनसा त्वलौकिकप्रत्यक्षे बाह्यपदार्थस्य विशेष्यतयाऽपि भानं सम्भवत्येव, ज्ञानलक्षणप्रत्यासत्या विशेषणतयैव भानं न तु विशेष्यतयेति तु बहिरिन्द्रियजन्यप्रत्यक्ष एव नियमो न तु मानसे, अथवा चाक्षुषप्रत्यक्षमेवाचेतना पृथिवीति, तत्र ज्ञानलक्षणप्रत्यासत्त्याऽचैतन्यस्य
५ शास्त्र०स०