SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुञ्चयः। [प्रथमः लौकिकसन्निकर्षेण पृथिव्या भानस्य सम्भवात् , सुरभि चन्दनमित्यादौ तथादर्शनात् । चेतना तु तद्रूपा न चेतना पुनः कठिनाबोधरूपा न, नहि भवति-कठिना चेतना, अचेतना चेतनेत्येवं प्रत्यक्षं काठिन्येनाचैतन्येन वा समं चैतन्यस्य सामानाधिकरण्यग्राहकम् , तथा च यद् यद्रूपेण न प्रमीयते तत् तद्रूपं न भवति, चेतना काठिन्यरूपेणाचैतन्यरूपेण च न प्रमीयत इति न सा काठिन्याबोधरूपा । अतः सा चेतना, तत्फलं भूतफलम् , भूतोपादेयेति यावत् , उपादानोपादेयभावेनैव कार्यकारणभावस्यात्राभिप्रेतत्वात् । कथं भवेत् ? न कथमपि भवितुमर्हतीत्यर्थः। ननु भूतधर्मेण काठिन्य-जाड्यादिनाऽप्यात्मनः 'कठिनोऽहं, जडोऽहम्' इति प्रतीतिः 'स्थूलोऽहं, गौरोऽहम्' इति स्थूलत्व. गौरत्वादिनाऽऽत्मनः प्रतीतिवजायत एव, यदि जाड्यरूपेणाऽऽत्मनः प्रतीतिर्न भवेत् तर्हि कथमुपपद्येत 'मामहं न जानामि' इति प्रतीतिरिति चेत् ? नशरीरेण सहाऽऽत्मनोऽभेदभ्रमतजनितवासनादोषाजायमानायाः स्थूलोऽहमिति प्रतीतेरपि भ्रमतयैवोपगमात् , तद्वच्छरीरात्माभेदभ्रमवासनादोषाजायमानायाः कठिनोऽहमित्यादिप्रतीतेभ्रंमत्वात् , 'कठिनमिदं जडोऽयम्' इत्येवमिदन्त्वसामानाधिकरण्येनानुभूयमानस्य काठिन्यादेरहन्त्वसामानाधिकरण्यासम्भवाच्च, मामहं न जानामीति प्रतीतिस्तु आत्मविषयकज्ञानविशेषाभावप्रकारकात्मविशेष्यकज्ञानस्वरूपा नात्मनो जाड्यमवगाहते, ज्ञानवत्यपि यत्किञ्चिज्ज्ञानाभावस्य सत्त्वेन तस्य ज्ञानसामान्यविरोधित्वाभावेन जाड्यरूपत्वाभावात् , तस्या ज्ञानसामान्याभावप्रकारकत्वं तु वक्तुमशक्यम् , उक्तप्रतीतेरपि ज्ञानत्वेन ज्ञानसामान्याभाववत्यात्मनि विरोधादेवोत्पत्त्यभावापत्तेः, भावरूपाज्ञानविषयकत्वं तु माया. ऽविद्यादिशब्दाभिलाप्याज्ञानस्य वेदान्त्यभिमतस्यान्यत्र निरस्तत्वान्न सम्भवतीति ॥ १३ ॥ भूतेषु प्रत्येकं चेतनोत्पत्तेः प्राक् किं सती असती वेति विकल्प्योभयपक्षे दोषोपदर्शनेन भूतकार्यत्वं चेतनायाः खण्डयति प्रत्येकमसती तेषु, न च स्याद् रेणुतैलवत् । सती चेदुपलभ्येत, भिन्नरूपेषु सर्वदा ॥४४॥ प्रत्येकमसतीति–प्रत्येकम्-असंहतावस्थायाम् , तेषु भूतेषु, असती अविद्यमाना, चेतनेत्यनुवर्तते, न च नैव, स्यात् भवेत् , उत्पत्तेः प्रागभूतेषु
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy