________________
स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः प्रत्येकमविद्यमाना चेतना समुदितेष्वपि भूतेषु न भवेदित्यर्थः । तत्र दृष्टान्तमाह-रेणुतैलवदिति-रेणौ तैलवदित्यर्थः, यथा प्रत्येकं तिलेषु विद्यमानमेव तैलं समुदितेषु तिलेषु यत्रनिष्पीडितेषु प्रादुर्भवति, रेणुषु तु प्रत्येकमविद्यमान तत्समुदितेष्वपि रेणुषु यन्त्रनिष्पीडितेषु नोपजायते, तथा भूतेषु प्रत्येकं प्रागविद्यमाना चेतना समुदितेष्वपि तेषु नोत्पद्येत, प्रत्येकास्तित्वस्य तत्समुदायजन्यत्व. व्यापकत्वेन प्रत्येकास्तित्वाभावात् तत्समुदायजन्यत्वाभावसिद्धेः, व्यापकाभावे व्याप्याभावस्यावश्यम्भावात् । चेत् यदि। भिन्नरूपेषु असंहततयाऽवस्थितेषु भूतेषु । सती विद्यमाना, चेतनेत्यनुवर्तते, तदेति दृश्यम् । सर्वदा संहतावस्था. यामसंहतावस्थायां च, प्रत्यक्षकारणेन्द्रियविषयसम्बन्धसमवधाने सति, उप लभ्येत प्रत्यक्षविषयो भवेत् , तत्प्रत्यक्षप्रतिबन्धकस्य कस्यचिदभावात् ॥ ४४ ॥
यत् प्रत्येकं येषु प्राग् नास्ति तत् तेषु समुदितेष्वपि नेति नियमे परो व्यभि चारमाशङ्कते
असत् स्थूलत्वमण्वादौ, घटादौ दृश्यते यथा ।
तथाऽसत्येव भूतेषु, चेतनाऽपीति चेन्मतिः॥ ४५ ॥ असदिति-अविद्यमानमित्यर्थः । स्थूलत्वं महत्त्वम् । अण्वादौ परमाण्वादौ, अत्रादिपदाद् द्वयणुकपरिग्रहः। घटादौ घटस्यादिः-परम्परया कारणं घटादिः त्रसरेणुः, तस्मिन् । यथा दृश्यते चाक्षुषप्रत्यक्षविषयो भवति, तथा भूतेषु असंघातावस्थभूतेषु, । असत्येव अविद्यमानैव चेतनाऽपि भवतीति शेषः, सामग्रयां सत्यामवश्यं कार्यमित्येवं कार्य-सामग्र्योरेव व्याप्यव्यापकभावः; न तु येषु समुदितेषु यदुत्पत्तिस्तेष्वसमुदितेष्वपि तदस्तित्वमिति नियमः, प्रत्येकमवयवेष्वसतोऽप्यवयविनः समुदितेषु भावेन, मद्याङ्गेषु प्रत्येकमसतोऽपि मादनशक्तिपरिणामस्य तेषु समुदितेषु भावेन देशनियमस्यान्यथैवोपपत्तेः । इति एवम् । चेत् यदि । मतिः परस्य स्वमनीषा ॥४५॥ अनोत्तरमाह
नासत् स्थूलत्वमण्वादौ, तेभ्य एव तदुद्भवात् ।।
असतस्तत्समुत्पादो, न युक्तोऽतिप्रसङ्गतः ॥ ४६॥ , नासदिति-अण्वादौ परमाणुद्वयणुकयोः, स्थूलत्वं महत्त्वम् , असत्