________________
शास्त्रवार्तासमुच्चयः ।
[प्रथमः अविद्यमानं, न किन्तु विद्यमानमेव, तत्र हेतु:-तेभ्य एव तद्भवादितित्र्यणुककारणत्वेन सिद्धेभ्यः परमाणु-द्वयणुकेभ्य एव, त्र्यणुके महत्त्वोत्पादात् । ननु अणुष्वविद्यमानमेव महत्त्वं त्रसरेणावुत्पद्यतामित्यत आह-असत इतिअणुष्वविद्यमानस्य महत्त्वस्येत्यर्थः । तत्समुत्पादः अणुभ्य उत्पत्तिः। अतिप्रसङ्गतः यथा महत्त्वमसदपि अणुभ्य उत्पद्यते तथा पञ्चमभूतादिकमप्यणुष्वसदणुभ्यस्यणुके समुत्पद्यतेत्येवमतिप्रसङ्गदोषात् , न युक्तः न समीचीनः॥४६॥ अतिप्रसङ्गदोषमेव स्पष्टयति
पञ्चमस्यापि भूतस्य, तेभ्योऽसत्त्वाविशेषतः ।
भवेदुत्पत्तिरेवं च, तत्त्वसंख्या न युज्यते ॥४७॥ पञ्चमस्यापीति-षष्ठादीनामप्युपलक्षणम् , तेन भू-जल-तेजो-वाय्वतिरिक्ततत्त्वस्यापीत्यर्थः । भूतस्येत्यप्युपलक्षणम् , तेन पञ्चमभूतसमुत्पत्तौ यथा "चत्वार्येव भूतानि तत्त्वम्" इति स्वसिद्धान्तव्याकोपो यथा चार्वाकस्य तथा भूतातिरिक्ततत्त्वोत्पादेऽपि भूतमात्रतत्त्ववादित्वव्याहतिरपि तस्य दोष एवेति । तेभ्यः अणुभ्यः, असत्त्वाविशेषतः यथा महत्त्वस्याणुष्वसत्त्वं तथा पञ्चमभूतस्यापीत्येवमसत्त्वस्योभयत्र समत्वात् , तथा चासत्त्वस्याविशेषाद् विनिगमकस्य कस्यचिदभावाद् यदि भूतेष्वणुष्वसत् स्थूलत्वं त्र्यणुके तत्कार्ये समुत्पद्येत तदा तत्र पञ्चमभूतमपि समुत्पद्यतेत्यर्थः। भवत्वेवं का नो हानिरित्यत आहएवं चेति-पञ्चमभूतोत्पत्त्यभ्युपगमे चेत्यर्थः, तत्त्वसङ्ख्या "चत्वार्येव भूतानि" इति वचनाभिलाप्या तत्त्वानां चतुष्वसङ्ख्या । न युज्यते युक्त्युपपन्ना न स्यात्, तथा च यत्समुदायजन्यत्वं यस्य तस्य तत्प्रत्येकवृत्तित्वमिति नियमस्य देशनियमार्थमकल्पनेऽपि, अविशेषादसमुदितावस्थायामसतामशेषाणामपि समुदितेषूत्पत्तिर्मा प्रसाङ्गीदित्यसदनुत्पत्तिनिर्वाहाय तत्संघातजन्यत्वमसंहततत्प्रत्येकास्तित्वव्याप्यमित्येवं नियमस्य कल्पनमावश्यकमिति हृदयम् । नन्वसत्त्वाविशेषेऽपि यद्धर्मावच्छिन्नं प्रति यद्धर्मावच्छिन्नस्य कारणत्वं तद्धर्मावच्छिन्नात् तद्धर्मावच्छिन्नस्योत्पत्तिरिति पञ्चमभूतासाधारणधर्मावच्छिन्नं प्रति भूतसमुदायत्वावच्छिन्नस्य कारणत्वाभावात् कारणाभावादेव न पञ्चमभूतोत्पत्तिः प्रसज्यत इति चेत् ? न-पञ्चमभूतं प्रति न किमपि कारणमित्यत्र हेतोर्वक्तव्यत्वात् ; ननु पञ्चमभूतस्यासत्त्वादेव न तत् प्रति किमपि कारणमिति चेत् ?