________________
विषयानुक्रमणिका
अङ्काः
विषयाः
पत्र-पती २२८ तमस आलोकाभावरूपत्वे आलोकं विना तमसो ज्ञानं यद् भवति
तन्न स्यात् , अभावज्ञाने प्रतियोगितावच्छेदकविशिष्ट प्रतियोगि
ज्ञानस्य हेतुत्वात् , अत्रोदयनानुयायिमतमाशय प्रतिक्षिप्तम् । १२९-१९ २२९ अभावज्ञानसामान्य प्रति विशिष्याभावज्ञानं प्रति वा प्रतियोगि
तावच्छेदकविशिष्टप्रतियोगिज्ञानस्य न कारणत्वं, किन्तु विशिष्टवैशिष्ट्यावगाहिप्रत्यक्ष प्रति विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वमिति तमसोऽभावरूपत्वेऽपि प्रतियोग्यविशेषिततज्ज्ञानं
प्रतियोगिज्ञानं विनाऽपि भविष्यतीति प्रश्नः, तदपाकरणञ्च । १२९-२५ २३० तत्र प्रतियोगिज्ञानं विना न इत्याकारकप्रत्यक्षस्यापादनं, तत्र प्रश्नप्रतिविधानपरम्परया विचारः पल्लवितः ।
- १३०-२१ २३१ येन केनापि प्रकारेण घटाभावज्ञाने घटज्ञानस्य कारणत्वे तमस्त्वं
यद्यलोकाभावत्वरूपं स्यात् तदा तमस्त्वप्रकारकं तमःप्रत्यक्षमा.
लोकज्ञानं विनैव भवेदित्यापादनं सुव्यवस्थितम् । १३६-२७ २३२ न इत्याकारकप्रत्यक्षापत्त्यादेः प्रकारान्तराश्रयणेन वारणेऽपि
तमस्त्वस्य तेजोभावरूपत्वेन तद्रूपेण तमःप्रत्यक्षे उक्तनियमादप्यालोकत्वप्रकारकज्ञानस्यापेक्षितत्वादालोकज्ञानं विना तन्न स्यादिति सुदृढनिरूढम् ।
१३७-५ २३३ आलोकप्रतियोगिकाभावभावमात्रादेस्तमोव्यवहारविषयत्वमपाकृतम् ।
१३९-६ २३४ निरुक्तालोकाभावघटकपदार्थानामप्रतिसन्धानेऽपि प्रतिसन्धीयमा
नस्य तमस्त्वस्य घटत्वादिवजातिरूपत्वे तदाश्रयस्य तमसो द्रव्यरूपत्वमेव युक्तमिति ।
१४०-१ २३५ अभावे उत्कर्षापकर्षों न भवतः, तमसि तु तौ प्रतीयेते, तद्वलाद
न्धतमसादिव्यवहार उपजायत इति तमसो भावत्वमेव युक्तमिति। १४०-१३ २३६ आलोकापसारणागमनाभ्यामुत्पादविनाशप्रतीतेरभावे तदसम्भ
वात् तमसो भावत्वमेव युक्तम् , आलोकसंसर्गाभावसमुदाय एवान्धकार इत्यादिशशधरशर्मवचनस्य युक्तत्वनिराकरणञ्च । १४१-२०