________________
विषयानुक्रमणिका
१७ अङ्काः
विषयाः
पत्र-पती १८५ तत्र शरीरवृत्तितयाऽऽत्मत्वजातरुपगमे सार्यदोषाशङ्कायास्तद. .. ___ दोषत्वाभ्युपगमेन निरासो विहितः ।
९९-२० १८६ शरीरस्य पञ्चभौतिकत्व-चातुभौतिकत्वादिकमपाकृत्य प्रतिनियतेकभौतिकत्वं व्यवस्थाप्य तत्र तस्यान्तर्भावो दर्शितः ।
९९-२७ १८७ ज्ञानस्य शरीरगुणत्वे परशरीरगतस्य तस्य चाक्षुषापत्तिरित्याशङ्काया निरसनम् ।
१००-१७ १८८ अन्यानुभूतस्यान्येनास्मरणात् सामानाधिकरण्य प्रत्यासत्त्याऽनुभ
वस्मरणयोः कार्यकारणभाव इत्युपचयापचयाभ्यां विभिद्यमानस्य शरीरस्य चैतन्येऽन्यशरीरानुभूतस्यान्येन शरीरेण स्मरणं न स्यादित्याशङ्कायाः प्रतिविधानम् ।
१००-२४ १८९ अत्रैव कारणगुणक्रमेण कार्ये गुणसङ्क्रम उपपादितः । . १०१-३ १९. शरीरस्यात्मत्वे परात्मप्रत्यक्षापत्तिशङ्काया अपाकरणम् । १०१-११ १९१ शरीरस्यात्मत्वे तत्प्रत्यक्षे संयुक्तसमवाय एव संनिकर्ष इति संयो.
गस्य सन्निकर्षत्वं न कल्प्यते इति लाघवं, परमते त्वात्मप्रत्यक्षा
नुरोधेन संयोगः कल्पनीय इति गौरवमिति दर्शितम् ।। १०१-२० १९२ परमते आत्मनो नोद्भूतरूपमिति आत्मेतरद्रव्यवृत्तिविषयतासम्ब.
न्धेन प्रत्यक्षं प्रति समवायेनोद्भूतरूपं कारणम् , अस्मिन् मते च कार्यतावच्छेदकसम्बन्धे आत्मेतरत्वप्रवेशो नेति लाघवमिति चार्वाकाशङ्कानिगमनम् ।
१०२-११ १९३ देहधर्मत्व-देहकार्यत्वतो मृतदेहेऽपि चेतन्यमुपलभ्येत, अन्यथा
देहधर्मत्व-देहकार्यत्वे चैतन्यस्य न स्यातामित्युक्तशङ्कोत्तरपरं पञ्चषष्टितमपद्यं तद्विवरणञ्च ।
१०२-१७ १९४ यद् यद्धमत्वत्कार्यभूतं न तत् तद्भावे न भवतीति नियमे मृतदेहे
प्रत्यक्षेण प्रतीयमानैर्लावण्यादिभिर्व्यभिचारो नेत्युपदर्शकं षट्षष्टितमपद्यं तद्विवरणञ्च ।
१०३-१० १९५ सप्तषष्टितमपद्यावतरणं, तत्र चार्वाकाशङ्का, तस्यां मृतदेहे रूप
मात्रं न लावण्यं, तेन पाकजरूपादिना च व्यभिचारादुक्तनियमासिद्धिः।
१०३-२१ २ शा० अ०