SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १७५ रासनप्रत्यक्षकाले त्याचप्रत्यक्षापत्तिवारणाय स्वाचप्रत्यक्षं प्रति प्रतिबन्धकस्यादृष्टस्य स्वीकारे चाक्षुषादिसामग्रीकाले आत्ममानसस्य आत्म-मनोयोगादिलक्षणसामग्रीबलादापत्तिवारणाय तत्प्रतिबन्धकादृष्टकल्पनया सुषुप्तौ तेनैव ज्ञानानुत्पत्त्युपगमौचित्याच; किञ्च, इन्द्रियलिङ्गादिजन्यज्ञानोत्पत्तिकालेऽपि मनःसंयुक्तसमवायलक्षणस्य ज्ञानमानसप्रत्यक्षकारणस्य सद्भावाज्ज्ञानज्ञान-तज्ज्ञानादिप्रत्यक्षधारैव स्यात् , न विन्द्रियान्तरादिजन्यघट-पटादिप्रत्यक्षादिकमिति विषयान्तरज्ञानोच्छेदभयाद् विषयान्तरसञ्चारस्य ज्ञानज्ञानादौ प्रतिबन्धकत्वकल्पने गौरवाज्ज्ञानस्येन्द्रियाग्राह्यत्वेन प्रकाशमानस्य तस्य स्वसंविदितत्वसिद्धौ स्वसंविदितज्ञानधारयाऽपि विषयान्तरसञ्चारोच्छेदो मा प्रसाङ्गीदित्येतदर्थ तत्प्रतिबन्धकदोषकल्पनागौरवमपि फलमुखत्वान्न बाधकमिति ॥ ८६ ॥ इत्थं प्रत्यक्षसिद्धत्वमात्मन उपपादितमुपसंहरति अतः प्रत्यक्षसंसिद्धः, सर्वप्राणभृतामयम् । स्वयंज्योतिः सदैवात्मा, तथा वेदेऽपि पठ्यते ।। ८७ ॥ अत इति-अहंप्रत्ययस्याभ्रान्तप्रत्यक्षरूपत्वतः, अयम् आत्मा, सर्वप्राणभृताम् सर्वजीवानाम् , 'अहम्' इत्यात्मप्रत्यक्षं कस्यचिद् भवति कस्यचिन्नेत्येवं न किन्तु सर्वेषामेव जीवानां तद्भवत्येव, अतः सर्वेषां जीवानामविगानेन प्रत्यक्षसिद्ध एवायमात्मा न केनाप्यपलपितुं शक्य इत्याशयः। प्रत्यक्षसंसिद्धः प्रत्यक्षप्रमाणविषयः, न केवलमनुभवसध्रीचीनया युक्त्यैव सिद्ध आत्मा कथ्यते, -किन्तु प्रमाणतया परैरुररीकृत आगमोऽप्यस्यात्मनः स्वयंसंविदितज्ञानात्मक. प्रत्यक्षसिद्धत्वं स्पष्टं प्रतिपादयतीत्याह-स्वयंज्योतिरिति । तथा अनुभवानुसारेण, वेदेऽपि श्रुतावपि, आत्मा शरीरव्यतिरिक्तो जीवः, सदैव संसारावस्थायामपि, स्वयंज्योतिः स्वसंविदितज्ञानस्वरूपः, पठ्यते गीयते, "आत्मज्योतिरेवायं पुरुषः” [ ] इत्यादिवचनेन । एतेन वेदप्रामाण्याभ्युपगन्तॄणां ज्ञानपरोक्षत्ववादिनां मीमांसकानां कुमारिलभट्टानुयायिनां मतमप्यपहस्तितम् , मीमांसकास्त्रयो भिन्नप्रस्थानाः, तत्र प्रभाकरो ज्ञानं स्वप्रकाशप्रत्यक्षस्वरूपमभ्युपगच्छति, मुरारिमिश्रस्तु नैयायिकोक्तदिशा स्वव्यतिरिक्तानुव्यवसायात्मकप्रत्यक्षविषयत्वं ज्ञानस्योपैति, कुमारिल. AMM mm Mm
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy