SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १७४ शास्त्रवार्तासमुच्चयः। [प्रथमः आत्मादिमानसापत्तिः, न च किञ्चिद्योग्यविशेषगुणवत्तयैवात्मनो ग्रहणं भवतीति नियमात् तदानीं योग्यविशेषगुणाभावेन नात्ममानसापत्तिरिति वाच्यम् , उक्तनियमस्य सविषयकप्रकारकात्ममानसत्वावच्छिन्नं प्रति मनोयोगादेः कारणत्वमिति कार्यकारणभावमूलकतया गौरवेण सविषयकप्रकारकात्ममानसत्वस्य मनोयोगादिजन्यतावच्छेदकत्वाभावे उक्तकार्यकारणभावस्यासम्भवेऽभावात् ; न चात्ममनोयोगस्य सुषुप्तिकाले सत्त्वेऽपि ज्ञानत्वावच्छिन्नं प्रत्येव कारणस्य त्वङ्मनोयोगस्याभावात् तदा नात्मनो मानसमिति वाच्यम् , त्वङ्मनोयोगस्य त्वाचप्रत्यक्षं प्रत्येव कारणत्वम् , यद्विरहात् त्वगिन्द्रियार्थसन्निकर्षेऽपि चाक्षुषादिप्रत्यक्षकाले न त्वाचप्रत्यक्षम् , जन्यज्ञानत्वावच्छिन्नं प्रति त्वङ्मनोयोगस्य कार-" णत्वे मानाभावात् ; एवमपि यदि जन्यज्ञानसामान्यं प्रति त्वङ्मनोयोगस्य कारणत्वमुपेयते तदा चाक्षुषादिप्रत्यक्षोत्पत्तिकालेऽपि यत्किञ्चिदर्थेन सह त्वगिन्द्रियसन्निकर्षसत्त्वे त्वङ्मनोयोगसहकृतेन तेन त्वाचप्रत्यक्षापत्तः परिहर्तुमशक्यत्वात् ; किञ्च, तत्तदिन्द्रियजन्यप्रत्यक्षत्वावच्छिन्नं प्रति पृथगेव तत्तदिन्द्रियमनोयोगत्वेन कारणत्वं सिद्धान्तितमस्ति, तदपि ज्ञानत्वावच्छिन्नं प्रति त्वङ्मनो. योगत्वेन कारणत्वे त्वङ्मनोयोगाभावे ज्ञानसामग्र्यभावादेव त्वाचप्रत्यक्षानुत्पत्तिसम्भवेन गौरवेण त्वाचत्वावच्छिन्नं प्रति त्वङ्मनोयोगत्वेन कारणत्वासम्भवतो न स्यात् , इति चेत् ? न-'सुषुप्तौ जीवनादृष्टबलादेव प्राणसञ्चारो न यत्नादिति जीवनयोनियत्नानभ्युपगमेनात्मादिमानसकारणस्य विजातीयात्ममनस्संयोगस्य सुषुसावभावादेवात्मादिमानसोत्पत्त्यापत्त्यसम्भवात् ; न च त्वविक्रयया त्वङ्मनस्संयोगनाशे पुरीतक्रियया पुरीतद्-मनस्संयोगरूपसुषुप्त्युत्पत्तौ ज्ञानसामान्यकारणस्य विजातीयात्ममनःसंयोगस्य जाग्रदवस्थाकालीनस्य मनःक्रियाया अभावादेव विनाशात् तबलात् तदानीं ज्ञानोत्पत्त्यापत्तिरिति वाच्यम् , सर्वत्र मनःक्रिययैव सुषुप्तिस्वीकारेण सुषुप्तिकाले जाग्रदवस्थाकालीनविजातीयात्ममनःसंयोगावस्थानासम्भवात् , तदुक्तं-“यदा मनस्त्वचं परिहत्य पुरीतति नाड्यां प्रविशति तदा सुषुप्तिः” इत्यादि, इति चेत् ? न-चेष्टात्मकविजातीयक्रियां प्रति प्रयत्नस्य कारणत्वेन सुषुप्तावपि चेष्टाया उत्पादेन तदर्थ जीवनयोनियत्नस्यावश्यमभ्युपेयत्वात् , नाड्यादिक्रिययाऽपि सुषुप्तिसंभवात् , “यदा मनः" इत्याद्यभिधानस्य प्रायिकत्वात् , मनोयोगनिष्ठवैजात्यावच्छिन्नहेतोरदृष्टाति. रिक्तस्यादर्शनात् , रसना-मनःसंयोगदशायां त्वङ्मनःसंयोगस्याप्यावश्यकत्वाद्
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy