________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१७३ आत्मनाऽऽत्माहे तस्य, तत्स्वभावत्वयोगतः ।
सदैवाग्रहणं ह्येवं, विज्ञेयं कर्मदोषतः ॥ ८६ ।। आत्मनेति । आत्मना ज्ञानेन, उपयोगलक्षण आत्मेति ज्ञानमप्यात्मनोऽभिश्चत्वादात्मा भवत्येव, एतेन स्वस्य स्वग्रहणे करणत्वमुपदर्शितम् । आत्मग्रहे आत्मनो ग्रह आत्मग्रहस्तस्मिन् , आत्मनो-ज्ञातुः, ग्रहणं-ग्रह इति ग्रहणेज्ञप्तिक्रियायाम् , उपपद्यमानायामिति शेषः । कथं स्वस्वरूपेण ज्ञानेन ज्ञातुर्जप्तिक्रियोपपन्नेत्याकाङ्क्षायामाह-तस्य तत्वभावत्वयोगत इति-तस्य-आत्मनः, तत्स्वभावत्वयोगत:-आत्मना ग्रहणस्वभावत्वयोगात् , तादृशज्ञानजननशक्तिसमन्वितत्वादिति यावत् । यदि स्वप्रकाश एवात्मा तदा कथं न सर्वदा कर्तृक्रियाभावेन प्रकाशते ? इत्याशङ्कानिवृत्तये त्वाह-सदैवाग्रहणमिति । हि निश्चितम् । एवम् 'अहं ज्ञाने' इत्याद्युल्लेखेन । सदैव सुषुप्तयादिकालेऽपि । अग्रहणम् आत्मन एव ज्ञप्तिक्रियाविरहः । कर्मदोषतः ज्ञप्तिक्रियाप्रतिबन्धकज्ञानावरणीयकर्मणोऽपराधेत, अपराधश्च तस्य स्वसाम्राज्येन स्वविरोधिनो ज्ञानस्य कार्याक्षमतापादनम् , अतः कर्मदोषत इत्यस्य तथाप्रतिबन्धकज्ञाना. वरणसाम्राज्यादित्यर्थ उपाध्यायेन कृतः । विज्ञेयं विशेषेण ज्ञातव्यम् ।
ननु आत्मनः स्वप्रकाशज्ञानग्रहणाभ्युपगम एव सुषुह्यादौ तत्सत्त्वेऽपि 'अहं जाने' इत्याद्युल्लेखेन तज्ज्ञप्त्यभावोपपादनाय तथाप्रतिबन्धकज्ञानावरणसाम्रा. ज्याश्रयणं क्रियते, तत्र चावरणादिकल्पनागौरवमापतति, ततो वरं स्वप्रकाशाग्रह - परित्यज्य सव्यापारेन्द्रियाद्यभावादेव सुषुप्तिकाले ज्ञानानुत्पत्त्या तदग्रहणमित्यभ्युपगमः, न च सुषुप्तेः प्राक् तृतीयक्षणे सुषुप्तयनुकूला मनःक्रिया, तत आत्मना सह मनोविभागः, तत आत्म-मनसोः पूर्वसंयोगस्य नाशः, तत्काल एव च परामर्शः, तदनन्तरक्षणे सुषुप्तिः, तदानीमेव चात्म-मनःसंयोगः, तस्यापि चात्म-मनोयोगत्वलक्षणात्मविशेषगुणासमवायिकारणतावच्छेदकधर्माकान्तत्वात् ज्ञानं प्रति कारणत्वमिति तत्सहकृतेन पूर्वक्षणोत्पन्नपरामर्शन सुषुप्तिद्वितीयक्षणेऽनुमित्यापत्तिरिति वाच्यम् , सुषुप्तिप्राक्षणे परामर्शोत्पत्तौ मानाभावात् , यदि परामर्शस्तत्कार्यमनुमितिश्चानुभूयेत तदा तदनुरोधेन कल्पेतापि सुषुप्तिप्राक्द्वितीयक्षणे परामर्शकारणीभूतव्याप्तिस्मृत्यादिकम् , न चैवम् ; अथ सुषुप्तिसमकालोत्पन्नात्ममनोयोगादिलक्षणेन्द्रियसग्निकर्षेण परप्रकाशवादे सुषुप्तिद्वितीयक्षणे