SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [प्रथमः भट्टस्तु ज्ञानं स्वतः परोक्षमेव किन्तु ज्ञानजन्या विषयगता ज्ञातता प्रत्यक्षा, तया ज्ञानमनुमीयत इत्याह, तत्र प्रभाकरो यदि यथैव स्याद्वादी स्वप्रकाशस्वरूपं ज्ञानस्य स्वीकरोति तथैवाभ्युपेयात् तदा स्याद्वाददत्तहस्तावलम्बोऽजय्य एव परेषाम् , अन्यथा स्वीकुर्वश्च नायं स्वप्रकाशवादी नापि परप्रकाशवादीति ताभ्यां पराजीयत एव, अन्यथा स्वीकारश्च तस्य, यथा न सत्ता सत्ताश्रयत्वात् सती, किन्तु स्वयमेव सद्रूपत्वात् सती, तथा ज्ञानमपि परप्रकाशानपेक्षत्वादेव स्वप्रकाशं, न तु स्वविषयत्वादिति । मुरारिमिश्रस्तु नैयायिकवत् पराजीयत एव स्वप्रकाशज्ञानवादिभिः स्याद्वादिभिः । कुमारिलभट्टस्य तु मतं न समीचीन, परोक्षत्वे ज्ञानस्यैवासिद्धेः, 'इयं घटत्वप्रकारकघटवृत्तिज्ञातता घटत्वप्रकारकघट वेशेष्यकज्ञानजन्या घटत्वप्रकारकघटवृत्तिज्ञाततात्वात् , या यत्प्रकारकयदृत्तिज्ञातता, सा तत्प्रकारकतद्विशेष्यकज्ञानजन्या, यथा पटत्वप्रकारकपटवृत्तिज्ञातता' इत्येवं ज्ञाततालिङ्गकज्ञानानुमानं तदा स्याद् यदि ज्ञातता प्रत्यक्षसिद्धा स्यात् , न च प्रत्यक्षसिद्धा ज्ञाततेति कुतस्तयाऽनुमेयं ज्ञानमिति; न च "घटं जानामि' इति ज्ञानक्रियाकर्मतया घटो भासते, कर्मत्वं च क्रियाजन्यफलशालित्वम् , घटे च ज्ञातताव्यतिरिक्तं ज्ञानजन्यं फलं नास्तीति ज्ञानजन्या ज्ञातताऽपि यदि तत्र न स्यात् तदा क्रियाजन्यफलाश्रयत्वाभावात् कर्मत्वमेव न भवेदतः कर्मत्वान्यथानुपपत्त्या घटादौ ज्ञानजन्या ज्ञातताऽभ्युपेयेति वाच्यम् , एवं सति 'घटमिच्छामि, घटं करोमि' इत्यादिप्रतीत्येच्छादिक्रियाकर्मत्वस्याप्य. न्यथानुपपत्त्येष्टता कृततादिलक्षणफलस्यापि सिद्ध्यापत्तेः, यथा च 'ज्ञातो घटः' इति प्रतीयते तथा 'इष्टो घटः, कृतो घटः' इत्येवमपीष्टताद्याश्रयत्वेन घटः प्रतीयत एव, किञ्च, अतीतघटादिज्ञाने जाते 'अतीतो घटो ज्ञातः' इत्यादिप्रतीतिरपि समुदेति, न चातीते घटादौ ज्ञानजन्या ज्ञातता संभवति, अतीते घटादौ ज्ञाततोत्पत्त्यसम्भवात् , ज्ञातताया भावात्मक कार्यस्वरूपत्वेन समवायिकारणं विना तदुत्पत्त्यसंभवात् , अविष्वग्भावात्मकसमवायसम्बन्धेन भावकार्य प्रति तादात्म्यसम्बन्धेन द्रव्यस्य कारणत्वात् ; न चातीते घटादौ योऽयम् 'अतीतो घटो ज्ञातः' इति प्रत्ययः स भ्रमात्मक एवेति तत्र ज्ञाततालक्षणविषयस्थाभावेऽपि न क्षतिरिति वाच्यम् , बाधकाभावेन तत्र भ्रमत्वकल्पनस्यायुक्तत्वात् , न चातीते घटे ज्ञानस्य स्वरूपसम्बन्ध एव ज्ञातता, विभिन्नकालीन
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy