SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १५६ शास्त्रवार्तासमुच्चयः। [प्रथमः धर्मिविषयकत्वावच्छेदेन दोषानपेक्षत्वमित्येवमवच्छेदकभेदेनोभयो रेकन समावेशोपपत्यथा न विरोधस्तथाऽनुमित्यादावपि वह्वयादि विषयकत्वावच्छेदेन व्याप्त्यादिज्ञानापेक्षा स्वविषयकत्वावच्छेदेन तदनपेक्षेत्येवमवच्छेदकभेदेनोभयोरेका समावेशोपपत्तेने विरोध इति वाच्यम् , दोषापेक्षे भ्रमे तदनपेक्षानभ्युपगमात् धयंशे स्वभावादेव भ्रमस्याभ्रमत्वात् । किञ्च, ज्ञानजन्यतानवच्छेदकं यत्किञ्चिजन्यतावच्छेदकं यद्विषयत्वं तदवच्छेदेन तस्य प्रत्यक्षत्वम् , यथा चक्षुरादिजनिते घटादिप्रत्यक्षे घटादिविषयत्वं ज्ञानजन्यतानवच्छेदकमथ च चक्षुरादीन्द्रियजन्यतावच्छेदकम् , अतो घटादिविषयत्वावच्छेदेन घटादिज्ञानस्य प्रत्यक्षत्वं भवति, वह्नयनुमित्यादौ तु वह्निविषयत्वं यद्यपि किञ्चिजन्यतावच्छेदकं तथाऽपि व्यायादिज्ञानजन्यतावच्छेदकत्वान ज्ञानजन्यतानवच्छेदकमिति न वह्नयनुमित्यादेर्वह्निविषयत्वावच्छेदेन प्रत्यक्षत्वम् , तथा च स्वप्रकाशवादे ज्ञानमात्रस्य यत् स्वविषयत्वं तत् ज्ञानजन्यतानवच्छेदकमपि न किञ्चिजन्यतावच्छेदकमिति न स्वविषयत्वावच्छेदेन ज्ञानस्य प्रत्यक्षत्वं स्यात् ; न च ज्ञानसामग्रीतो जायमाने ज्ञानस्वावच्छिन्ने स्वविषयत्वं समस्तीति स्वविषयकज्ञानत्वावच्छिन्नं प्रत्येव ज्ञानसामग्र्याः कारणत्वाज्ज्ञानसामग्रीजन्यतावच्छेदकं स्वविषयत्वमिति वाच्यम् , ज्ञानत्वावच्छिन्नं प्रत्येव ज्ञानसामग्रयाः कारणत्वेन ज्ञानत्वस्यैव केवलस्य ज्ञानसामग्रीजन्यताऽवच्छेदकत्वात् , प्रत्यक्षादि. ज्ञानविशेषसामग्रीजन्यता प्रत्यक्षादिज्ञानविशेष एव वर्तते, स्वविषयत्वं तु ज्ञानमात्रे वर्तत इत्यतिप्रसक्तत्वेनान्यूनानतिप्रसक्तधर्मस्यैवावच्छेदकत्वमिति नियमेन ज्ञानविशेषसामग्रीजन्यतावच्छेदकत्वस्याप्यभावात् ; न च वित्तेरवश्यवेद्यत्वात् स्वप्रकाशत्वम् , वस्तुसत्त्वे तज्ज्ञानमेव प्रमाणमिति यन्न ज्ञायते तन्नास्तीति ज्ञानाधीनमेव वस्तुसत्त्वमिति घटज्ञानस्य घटज्ञानज्ञानतः सत्त्वम् , तस्यापि तज्ज्ञानतः सत्त्वमिति परप्रकाशे यज्ज्ञाने विश्रान्तिः, अर्थाद यज्ज्ञानस्य ज्ञानं न जातं तस्य ज्ञानस्य ज्ञानाभावात् तदधीनसत्त्वाभावे तद्विषयीभूतज्ञानस्यासत्त्वमेवं तज्ज्ञानविषयस्याप्यसत्त्वमित्येवमाद्यव्यवसायलक्षणज्ञानस्याप्यसत्त्वतस्तद्विषयस्याप्यसत्त्वमापद्यत इत्यतो वित्तेरवश्यवेद्यत्वस्याभ्युपगन्तव्यस्य रक्षणार्थ स्वप्रकाशत्वं स्वीकरणीयमिति वाच्यम् ; सर्वासां वित्तीनां ज्ञानज्ञानत्वेनावश्यवेद्यत्वस्य स्वप्रकाशत्वं विनाऽप्युपपत्तेः, परप्रकाशे तस्यापि परस्यान्येन प्रकाशस्तस्याप्यन्येन प्रकाश इत्येवमनवस्थानं स्यात् तत्परिहाराय स्वप्रकाश भास्थेय इति चेत् ? न
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy