SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १५५ प्रत्यक्षविषयत्वमस्तीति व्यभिचारानोक्तव्याप्यव्यापकभावः संभवतीति वाच्यम् , अतीता-ऽनागतगोचरसाक्षात्कारजनकप्रत्यासत्यजन्यप्रत्यक्षविषयत्वं यत्र तत्र प्रत्यक्षजनकत्वमित्येवं व्याप्यव्यापकभावे निरुक्तव्यभिचारस्याप्रतिपन्थित्वात् , वस्तुतो लौकिकप्रत्यक्षविषयत्वं यत्र तत्र प्रत्यक्षजनकत्वमित्येव व्याप्यव्यापकभावः, साक्षात्करोमीत्यनुभवसिद्ध विषयताया एव लौकिकविषयतात्वेन तत्तां साक्षात्करोमीत्यनुभवाभावात् तत्तानिष्ठविषयता न लौकिकविषयतेति तत्तायां प्रत्यक्षजनकत्वाभावेऽपि न व्यभिचारः, तथा च स्वात्मकप्रत्यक्षाजनके स्वस्मिलौकिकसाक्षात्कारविषयता न स्यात् , तेनातीतानागतगोचरसाक्षात्कारजनकप: त्यासत्यजन्यप्रत्यक्षविषयत्वं यत्र तत्र प्रत्यक्षजनकत्वमिति नियमे विद्यमानत्वरूपसामान्यलक्षणप्रत्यासत्तेरतीतानागतगोचरसाक्षात्कारजनकप्रत्यासत्तित्वाभावात् तजन्यस्य विद्यमानत्वेन रूपेण सकलविद्यमानप्रत्यक्षस्यातीतानागतगोचरसाक्षात्कारजनकप्रत्यासत्त्यजन्यप्रत्यक्षस्य विषयत्वं सकलविद्यमानात्मकविषये समस्ति न तत्र प्रत्यक्षजनकत्वमिति व्यभिचारः स्यात् तद्वारणायोक्तनियमे अतीतानागतत्वस्थानेऽजनकत्वनिवेशस्यावश्यकत्वे प्रत्यासत्यादिभागमपहायाजनकविषयसाक्षात्कारान्यप्रत्यक्षविषयत्वं यत्र तत्र प्रत्यक्षजनकत्वमित्येवं नियमस्य कल्पने स्वात्मकप्रत्यक्षे ज्ञानस्याजनकत्वेन ज्ञानस्य प्रत्यक्षमजनकविषयसाक्षात्कार एव तदन्यो न भवतीति निरुक्तप्रत्यक्षविषयत्वं तत्र नास्तीति प्रत्यक्षाजनकत्वेऽपि नोक्तनियमहानिरिति तत्र स्वात्मकप्रत्यक्षविषयता न बाधितेत्युक्तावपि न क्षतिः । किञ्च, लाघवादिन्द्रिययोग्यतावच्छेदकं लौकिकविषयत्वमेव, तच्च ज्ञाने समस्तीति ज्ञानमिन्द्रिययोग्यमभ्युपगन्तव्यम् , बाह्येन्द्रियव्यापारमन्तरेणाप्यनुभूबमानत्वान्न तद् बाह्येन्द्रिययोग्यमिति परिशेषान्मनोग्राह्यत्वसिद्धौ न स्वप्रकाशत्वम् ; किञ्च, सर्वज्ञानानां स्वप्रकाशत्वं भवद्भिरिष्यते, तथा चानुमित्यादिकमपि विषयांशे परोक्षरूपं स्वांशे प्रत्यक्षरूपमिति प्रत्यक्षत्वाभाववति वह्नयादिविषयकत्वविशिष्टानुमितिस्वरूपेऽनुमितित्वं वर्तते, अनुमितित्वाभाववति घटादिप्रत्यक्षे प्रत्यक्षत्वं वर्तते इत्येवं परस्पराभावसामानाधिकरण्यं स्वविषयकानुमितिस्वरूपे प्रत्यक्षत्वमनुमितित्वं चास्तीत्येवमेकाधिकरणवृत्तित्वमित्येवमनुमितित्वादिना साङ्कर्यात् प्रत्यक्षत्वं जातिर्न स्यात् ; न च स्वविषयत्वे ज्ञानानपेक्षत्वं प्रत्यक्षत्वमुपाधिरेव न तु जातिः, उपाधेश्च साङ्कयं न बाधकमिति वाच्यम् , एकत्र ज्ञानापेक्षानपेक्षयोर्विरोधात् ; न च भ्रमे धर्मविषयकत्वावच्छेदेन दोषापेक्षत्वं
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy