SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [ प्रथमः भवतीति स्वस्य स्वाविषयत्वेन स्वविषयत्वाविषयत्वात्, स्वस्य स्वविषयत्व विषयकत्वे वा घटज्ञानज्ञानवानहमित्याकार उक्तज्ञानस्य प्रसज्येत । १५४ किञ्च, घटमहं जानामीति ज्ञाने घटात्मकविषयरूपकर्मण आत्मरूप कर्तुर्ज्ञानलक्षणक्रियाया भानं भवतीति कर्म-कर्तृ-क्रियात्मकत्रिपुटी प्रत्यक्षस्वरूपे तस्मिन् परसमवेतक्रियाजन्यफलशालित्वं करणव्यापार विषयत्वं वा विषयस्य कर्मत्वम्, क्रियायाः कृतेर्वा समवायित्वलक्षणमात्मनः कर्तृत्वम् धात्वर्थत्वं कृतिजन्यत्वं वा ज्ञानस्य क्रियात्वमयोग्यत्वान्न भासत इति न तादृशत्रिपुटीप्रत्यक्षात् स्वसंविदितत्वसिद्धिः, अन्यथा घटं चक्षुषा पश्यामीति व्यवहारात् करणविषयत्वमपि सिध्येत्; किञ्च, ज्ञान-प्रवृत्त्योः समानविषयत्वप्रत्यासत्या कार्यकारणभाव इति ज्ञानं यद्यर्थविषयकं न स्यात् तदा ततोऽर्थे प्रवृत्तिर्न भवेदिति प्रवर्तकत्वानुरोधेन ज्ञानस्यार्थविषयकत्वम्, ज्ञानाच्च ज्ञानस्वरूपे न कश्चित् प्रवर्तत इति प्रवर्तकत्वाप्रयोजन स्वविषयत्वेन ज्ञानस्यार्थविषयकप्रवृत्तौ कारणत्वं गौरवान्न सम्भवतीत्यर्थमात्रविषयक एव व्यवसाय इत्यभ्युपगमः श्रेयान् । " अपि च विशिष्ट विशेषणज्ञानस्य कारणत्वेने दन्त्वविशिष्टज्ञानवैशिष्ट्यमात्मन्यवगाहमानस्याहमिदं जानामीति ज्ञानस्य विशिष्टबुद्धितया विशेषणीभूतस्य घटज्ञानस्य ज्ञाने सत्येव संभवेन स्वप्रकाशे न तस्य संभवः, ज्ञानस्य पूर्वमज्ञातत्वेन प्रकारत्वानुपपत्तेः; न चाभावत्वस्य पूर्वमज्ञानेऽप्यभावत्वविशिष्टबुद्धयुत्पत्तेस्तत्र व्यभिचारवारणाय समान वित्तिवेद्यभिन्न विशेषणज्ञानत्वेन विशिष्टबुद्धौ हेतु - त्वाज्ज्ञानरूपविशेषणस्य विशेष्यीभूतात्मसमानवित्तिवेद्यतया पूर्व तज्ज्ञानाभावे - ऽपि तद्विशिष्टात्मबोधरूपस्य स्वप्रकाशस्य नानुपपत्तिरिति वाच्यम्, यद्धि येन विना न भासते तत् तत्समानवित्तिवेद्यं -तग्रहसामग्री नियतग्रह सामग्रीक मित्यर्थः, न च ज्ञानाभाने आत्माऽभानमित्यस्ति, ज्ञानाभानेऽपि 'अहं सुखी' इति ज्ञाने आत्मभानस्य सर्वसिद्धत्वात्, अपि च, प्रत्यक्षविषयतायामिन्द्रियसन्निकर्षस्य नियामकत्वान्नियामकी भूतेन्द्रियसन्निकर्षानाश्रयस्य ज्ञानस्य कथं प्रत्यक्षविषयत्वम् । न च ज्ञानं स्वात्मकप्रत्यक्षजनकम्, तथा च स्वात्मकप्रत्यक्षाजनकस्य ज्ञानस्य कथं वा स्वात्मकप्रत्यक्ष विषयत्वम्, यत्र प्रत्यक्षविषयत्वं तत्र प्रत्यक्षजनकत्वमित्येवं प्रत्यक्षविषयत्व-प्रत्यक्षज्ञानजनकत्वयोर्व्याप्यव्यापकभावेन प्रत्यक्षजनकत्वलक्षणव्यापकाभावात् प्रत्यक्षविषयत्वलक्षणव्याप्याभावस्य तत्र प्राप्तेः; न च संस्कारस्मृत्याद्युपनीततत्तादौ प्रत्यभिज्ञानाद्यात्मक प्रत्यक्षाजनकेऽपि प्रत्यभिज्ञानाद्यात्मक
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy