SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १५३ प्रयोगे, आदिपदाद् गौरी मे तनुरिति प्रयोगस्य परिग्रहः । भेदप्रत्ययदर्शनात् षष्ठ्यन्तास्मच्छब्दवाच्यात्मना समं प्रथमान्ततनुशब्दवाच्यस्य शरीरस्य भेदप्रत्ययानुभवात् , यतश्चैवं ततः, अभिमतस्यैव आत्मनः शरीरभिन्नत्वे त्वया बाधकत्वेनाङ्गीकृतस्यैवाहं गुरुरित्याग्रहप्रत्ययस्य, सा भ्रान्तता, युक्ता युज्यते, बाधितविषयकज्ञानस्य भ्रान्तत्वे सर्वेषामविवादात् । तु पुनः, इतरस्य 'अहं जाने' इत्यादिप्रत्ययस्याऽऽत्मनि शरीरभेदप्रत्ययनिबन्धनस्य, न भ्रान्तता न युक्ता, तत्र बाधकानवतारात् । एतत्तात्पर्यमित्थमुशन्ति उपाध्यायाः "भत्र षष्ट्या यद्यपि सम्बन्धमात्रमर्थः, तथाऽपि तस्या भेदनियतत्वेन शरीरेऽहत्ववद् भेदस्य शाब्दबोधोत्तरमाक्षेपलभ्यत्वेन गुरुत्वे मनिन्नवृत्तित्वेनोक्तप्रत्ययेऽहंत्वव्यधिकरणप्रकारकत्वलक्षणभ्रमत्वग्रहः' इति वदन्ति, 'भेदविशिष्टः सम्बन्ध एव षष्ठ्यर्थः, 'राहोः शिरः' इत्यादौ तु बाधाद् भेदांशस्त्यज्यते' इत्यन्ये, यद्यपि 'ममाऽऽत्मा' इत्यादावपि षष्ठीप्रयोगो दृश्यते तथापि गुरुत्वादावेवाहत्वव्यधिकरणत्वम्, अन्यत्र क्लप्तत्वात् , इदन्त्वसंवलितत्वाच्च; न तु ज्ञानादावित्यत्र तात्पर्यम् ॥ ८३ ॥ ननु इन्द्रियत्वेनेन्द्रियजन्यज्ञानमेव प्रत्यक्षम् , अहंप्रत्ययस्तु नेन्द्रियत्वेनेन्द्रियजन्य इति न प्रत्यक्षरूपः, प्रत्यक्षज्ञानविषयत्वेनैव विषयः प्रत्यक्षपदव्यपदेश्यो भवतीति प्रत्यक्षाविषयश्चात्मा प्रत्यक्षव्यपदेशभागपि न भवितुमर्हति स्वातिरिक्तज्ञानं विनाऽप्यपरोक्षत्वेन प्रतिभासनात् प्रत्यक्ष आत्मेति चेत् ? स्वातिरिक्तज्ञानं विनाऽपरोक्षत्वेन प्रतिभासनमेव विकल्पकवलितम् , तथाहि-स्वप्रतीतौ व्यापारो वा ? चिद्रूपस्य सत्ता वा तत् ? नाद्यः, कर्मणीव स्वात्मनि व्यापारानुपलम्भात् , न द्वितीयः, स्वतःप्रकाशायोगात् , स्वतःप्रकाशाभावादेव च स्वसंविदितज्ञानविषयत्वेन स्वातिरिक्तज्ञानं विनाऽपरोक्षत्वेन प्रतिभासनमपि न युक्तम् , ज्ञानस्य स्वसंविदितत्वासिद्धेः, सिद्धौ वा स्वसंवेदनमिन्द्रियाजन्यत्वान्न प्रत्यक्षम् , लिङ्गाद्यजन्यत्वाच्च नानुमानादिरूपमिति प्रसिद्धप्रमाणेष्वनन्तर्भावादतिरिक्तं प्रमाणं प्रसज्येत; अथ घटज्ञानं घटमहं जानामीत्येवंरूपम् , पटज्ञानं पटमहं जानामीत्येवंरूपमित्येवं सर्वज्ञानानां घटमहं जानामीत्याद्याकारत्वात् प्रत्यक्षेणैव स्वविषयत्वसिद्धिरिति चेत् ? न-घटमहं जानामीति घटविषयकज्ञानवानहमित्येवं स्वरूपम् , न तु घटविषयकज्ञानात्मकस्वविषयकज्ञानवानहमित्येवंस्वरूपमिति तत्र ज्ञाने घटविषयकत्वग्रहेऽपि स्वस्य ज्ञानविषयत्वाग्रहात् , नहि स्वं स्वविषयक
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy