________________
१५२ शास्त्रवार्तासमुच्चयः ।
[प्रथमः वा । तत् प्रमाणत्वं गमकत्वं वा । त्याज्यं त्यक्तव्यम् । तत्र हेतुः-तत्सद्भावाविशेषत इति- भ्रमजनकत्वाविशेषात् , द्विचन्द्रादिप्रत्यक्षभ्रमजनके चक्षुरादौ तत्सद्भावात् , व्यभिचारित्वसद्भावाविशेषादिति वा, द्विचन्द्रादिप्रत्यक्षस्थापि भ्रान्तत्वात् । अथ प्रत्यक्षाऽऽभासं द्विचन्द्रादिप्रत्यक्षम् , अन्यत् प्रत्यक्षादर्थान्तरभूतम्, तत्र व्यभिचारित्वहेत्ववगमाय विशेषणं-व्यभिचारीति-विसंवादिव्यवहारजनकमित्यर्थः, तत् द्विचन्द्रादिप्रत्यक्षम् । न साधु न प्रमारूपम् , न प्रत्यक्षरूपं तदिति वा, तथा च भ्रमाजनकत्वलक्षण प्रामाण्यं नानाभिप्रेतं येन चक्षुरादेर्द्विचन्द्रादिभ्रमजनकस्य तदभावात् प्रामाण्यं न स्यात् , किन्तु प्रमाजनकत्वमेव प्रामाण्यम् ; तच्च चक्षुरादिप्रत्यक्षप्रमाणे घटादिप्रत्यक्ष, प्रमाजनकत्वादक्षतमिति हृदयमिति चेत् ? ॥ ८१ ॥ अनोत्तरमाह
अहंप्रत्ययपक्षेपि, ननु सर्वमिदं समम् ।
अतस्तद्वदसौ मुख्यः, सम्यक् प्रत्यक्षमिष्यताम् ॥ ८२॥ अहंप्रत्ययपक्षेऽपीति-मयोपन्यस्ते अहंप्रत्ययपक्षेऽपीत्यर्थः, । ननु इत्याक्षेपार्थकः । इदं सर्व प्राक् प्रकटीकृतं पराभिप्रेतम् । समं तुल्यम् , असत्याहंप्रत्ययपरित्यागेन सत्याहंप्रत्ययमादाय अहंप्रत्ययजनकोपयोगस्य प्रमाणत्वाविरोधात् , दुष्टकारणजन्यत्वा- दुष्टकारणजन्यत्वाभ्यामहंप्रत्ययस्यापि द्वैविध्यसम्भवात् , तथा च प्रमाणग्राह्यत्वानालीकत्वमात्मनः, अपि तु पारमार्थिकत्वमेव, अतः उक्तसाम्यात् । तद्वत् सत्यघटप्रत्ययवत् । असो 'अहं जाने, अहं सुखी, अहं दुःखी'इत्यादिप्रत्ययः । मुख्यः सद्व्यवहारजनकः । सम्यक् प्रत्यक्षं प्रमाणात्मकप्रत्यक्षम् । इष्यतां स्वीक्रियताम् , तथा च प्रमात्मकप्रत्यक्षविषयत्वादस्त्येवामेत्यर्थः ॥ ८२ ॥
ननु 'अहं जाने' इत्यादिप्रत्ययो भ्रान्तो न, अहं गुरुरिति प्रत्ययश्च भ्रान्त इत्येवं प्रत्ययद्वैविध्यं तदा स्याद् यदि भ्रान्तत्वाऽभ्रान्तत्वव्यवस्थितौ किमपि विनिगमकं भवेत् , तदेव तु नास्तीत्याक्षेपप्रतिक्षेपायाह
गुर्वी मे तनुरित्यादौ, भेदप्रत्ययदर्शनात् ।
भ्रान्तताऽभिमतस्यैव, सा युक्ता नेतरस्य तु ॥ ८३ ॥ गुर्वीति । गुर्वी गुरुत्ववती, मे मम, तनुः शरीरम्, इत्यादी इत्यादि