________________
स्तबकः ]
स्याद्वादवाटिकाटीकासङ्कलितः
विना तदग्रहादित्याह - प्रतियोगीति । अनुपलम्भकाल इति तथा चानुपलब्धिमात्रमभावसंशये हेतुर्न तन्निश्चायकमित्यर्थः, हेतूनां पुत्राद्युत्पादकानामित्यर्थः, स एवेति-नानुपलब्धिमात्रेणाभावनिश्चय इत्यर्थः । अत एवेति- हेतूनां बाधादेवेत्यर्थः । ननु चक्षुरादीनामपि स्वोपलब्धिकाले सत्त्वमन्यदा त्वसत्त्वमिष्यत एवेत्यत आह-न चेति-उपलम्भेन्द्रिययोर्युगपदुत्पन्नयोः पौर्वापर्याभावादित्यर्थः । एतेनेति - अनुपलम्भमात्रस्यासाधकत्वेन हेत्वन्तरस्य चाश्रयासिद्ध्यादिने त्यर्थः ' इति ॥ ७९ ॥
.99
उक्तप्रत्ययो न प्रमेति स्वाभिप्रायं पर आशङ्कते -
भ्रान्तोऽहं गुरुरित्येष, सत्यमन्यस्त्वसौ मतः । व्यभिचारित्वतो नास्य, गमकत्वमथोच्यते ॥ ८० ॥
१५१
भ्रान्तोऽहमिति । अहं गुरुरित्यहं त्वावच्छिन्न विशेष्यक गुरुत्वप्रकारकः प्रत्ययो भ्रान्तः, गुरुत्वाभाववत्यहंत्ववत्यात्मनि गुरुत्वप्रकारकज्ञानत्वात्, शुक्तौ रजतत्वज्ञानवत्, इति पराशङ्कायां घटस्य कदाचिद् भ्रमविषयत्वेऽपि न नाम घटो नास्त्येव जगति, तथाऽऽत्मनः कदाचिद् भ्रमविषयत्वेऽपि नासन् स इत्याशयेनोत्तरयति - सत्यमिति - अहं गुरुरित्येष प्रत्ययो भ्रम इति यदुक्तं तत् सत्यमित्यर्थः । तु पुनः । असौ ' अहं जाने, अहं करोमि, अहं सुखी, अहं दुःखी' इत्यादिप्रमारूपोऽहं प्रत्ययः । अन्यः अहं गुरुरित्यादिभ्रमात्मकप्रत्ययतो भिन्नः । मतः अङ्गीकृतः, यस्य प्रमात्मकं ज्ञानं क्वचिदपि नास्ति तस्यैव सत्ख्यातिस्तवापि प्रमाणाग्राह्यत्वात् सम्मतः, आत्मनस्तु प्रमात्मकज्ञानमयस्तीति न प्रमाणाग्राह्यत्वादसत्ख्यातिग्राह्यत्वेनालीकत्वमात्मन इत्यभिसन्धिः । दुर्दुरूटः पर आह— व्यभिचारित्वतो नास्य गमकत्वमिति - अस्य - येनोपयो
नाहं गुरुरहं स्थूलोऽहं सुख्यहं दुःख्यहं जानेऽहं करोमीत्यादिकः प्रत्ययो भवति तस्याहं प्रत्ययजनकोपयोगस्य, व्यभिचारित्वतः - अर्थाभावेऽपि प्रत्ययजनकत्वतो भ्रमजनकत्वात्, न गमकत्वं न प्रमाणत्वम्, अथेत्याशङ्कायामित्येवं त्वमाशङ्कसे, तत्र समाधानमुच्यते ॥ ८० ॥
प्रत्यक्षस्यापि तत् ताज्यं, तत्सद्भावाविशेषतः ।
प्रत्यक्षाभासमन्यच्चेद्, व्यभिचारि न साधु तत् ॥ ८१ ॥ प्रत्यक्षस्यापीति-चक्षुरादिप्रत्यक्षप्रमाणस्यापीत्यर्थः, प्रत्यक्षात्मकज्ञानस्यापीति