________________
१५०
शास्त्रवार्तासमुच्चयः।
[प्रथमः
कुतः ? दर्शनदशायां भावनिश्चयात् , अदर्शनदज्ञायामभावावधारणात् , तथा च गृहाद् बहिर्गतश्चार्वाको वराको न निवर्तत, प्रत्युत पुत्र-दार-धनाद्यभावावधारणात् सोरस्ताडं शोकविकलो विक्रोशेत; स्मरणानुभवान्नैवमिति चेत् ? नप्रतियोगिस्मरण एवाभावपरिच्छेदात् ; परावृत्तोऽपि कथं पुनरासादयिष्यति ? सत्त्वादिति चेत् ? अनुपलम्भकालेऽपि तर्हि सन्तीति न तावन्मात्रेणाभावावधारणम् ; तदैवोत्पन्ना इति चेत् ? न-अनुपलम्भेन हेतूनां बाधात् , अबाधे वा स एव दोषः, अत एव प्रत्यक्षमपि न स्यात् , तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात् , उपलभ्यन्त एव गोलकादय इति चेत् ? न-तदुपलब्धेः पूर्व तेषामनुपलम्भात् , न च योगपद्यनियमः, कार्यकारणभावादिति। एतेन न पर माणवः सन्त्यनुपलब्धेः, न ते नित्या निरवयवा वा पार्थिवत्वात् , घटादिवत्', 'न पाथसीयपरमाणुरूपादयो नित्याः, रूपादित्वात् , दृश्यमानरूपादिवत्', न रूपत्व-पार्थिवत्वादि नित्याकार्यातीन्द्रियसमवायि जातित्वात् , शृङ्गत्ववत् ; नेन्द्रियाणि सन्ति योग्यानुपलब्धेः, अयोग्यानि च शशशृङ्गप्रतिबन्धिनिरसनीयानीत्येवं स्वर्गा-ऽपूर्व-देवतानिराकरणं नास्तिकानां निरसनीयमिति"।
अत्र वर्द्धमानोपाध्यायस्य कतिपयपङ्क्तिव्याख्यानं यथा- .
"सम्भावनेति-उत्कटकोटिकसंशयमात्रेणेत्यर्थः । दृष्टयदृष्ट्योरिति सप्तमीद्विवचनान्तम् , दर्शने तत्सत्तानिश्चयाददर्शने चाभावनिश्चयान्न संदेहः, प्रत्यक्षहेतौ गोलकादावदृष्टया-अनुपलब्ध्या बाधिते हेत्वभावात् प्रत्यक्षमपि न स्यादित्यर्थः । तथा चेति-पुत्रादिभिस्तस्यादर्शनात् स न स्यादिति गृहं न प्रत्यावर्तेतेत्यर्थः । प्रत्युतेति-पुत्रादेरदर्शनादित्यर्थः । ननु नाप्रत्यक्षं प्रमाणमिति चार्वाकसिद्धान्तादनुपलब्धिः प्रत्यक्षसहकारिणी, न च गेहाद् बहिर्गमनेऽधिकरणेन सहेन्द्रियसन्निकर्षोऽस्तीति न पुत्राद्यभावनिश्चयः स्यात् , सन्निकृष्टे देशे चाभावनिश्चयेऽपि ध्वंसानिश्चयान शोकः स्यात् , अत एव पर्वतपरभागेन सहेन्द्रिया: सन्निकर्षानाम्यभावनिश्चय इति तत्र संशयादनुमानप्रवृत्तिः, अत्राहः-अधिकरणज्ञानमात्रमभावधीहेतुः, न तु तदिन्द्रियसन्निकर्षोऽपि, अत एव देवताद्यभावस्तदधिकरणासन्निकर्षेऽपि गृह्यते इति चार्वाकसिद्धान्तमाश्रित्योक्तम् । पुत्रादेः स्मरणान्नैवं करोतीत्याह-स्मरणेति-स्मरणादिति वक्तव्ये अनुभवग्रहणं तत्र प्रमाणसूचनार्थम् । पुत्रादिस्मरणं तदभावग्रहेऽनुकूलमेव, प्रतियोगिज्ञानं